पृष्ठम्:Laghu paniniyam vol1.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त विश्वो यस्य स प्रियविश्व इति बहुव्रीहे: प्रियविश्वाय इत्येव रूपं न तु प्रियविश्वस्मै इति सर्वनामकार्यम् || ८० १७३ | तृतीयासमासे । (१-१-३०) तृतीयासमासे च सर्वनामता न । मासेन पूर्वो मासपूर्वः तस्मै मासपूर्वाय इत्येव, न तु पूर्वस्मै इति ।। १७४ । द्वन्द्वे च । (१-१-४१) द्वन्द्वसमासे च न सर्वनामता । वर्णाश्च आश्रमाश्च इतरे च वर्णाश्रमेतराः इति द्वन्द्वे वर्णाश्रमेतराणाम् इत्येव रूपं, न तु इतरेषामिति ॥ १७५ । विभाषा जसि । (१-१-३२) जसि, (प्रथमाबहुवचनस्थाने) यत् कार्यं तत्र वा द्वन्द्वस्य सर्व- नामता । वर्णाश्रमेतरे, तराः इति च रूपम् ॥ १७६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । (१-१-३३) प्रथमादयोऽपि जसि वा सर्वनामकार्य लभेरन् । तत्र नेमशब्दः सर्वादौ पठित इति तस्य प्राप्ते विभाषा; अन्येषां त्वप्राप्ते । प्रथमे, प्रथमाः इत्यादिरूपविकल्पः फलम् || १७७ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थाया- मसंज्ञायाम् । (१-१-३४) १७८ । स्वमज्ञातिधनाख्यायाम् । (१-१-३५) १७९ । अन्तरं बहिर्योगोपसंव्यानयोः (१-१-३६) सर्वादिगणे गणसूत्रतया पठितमेव सूत्रत्रयमिदं जसि विकल्प- विधानार्थ प्रकरणेऽत्र पुनः पठ्यते । पूर्वादयो जसि पिकल्पेनैव सर्व- नामानीत्यर्थः । तेन च पूर्वे, पूर्वाः इत्यादि रूपाणि GDF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९९&oldid=347465" इत्यस्माद् प्रतिप्राप्तम्