पृष्ठम्:Laghu paniniyam vol1.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । प्रकृतिवाच्यस्य वस्तुन एकत्वे एकवचनम् ; द्वित्वे द्विवचनम् ; तदधिकत्वे बहुवचनं च प्रयोज्यम् || १६९ । विभक्तिश्च (सुप्तिङ:) । (१-४-१०४) सुप्प्रत्ययास्ति'ङ्प्रत्ययाः (तिप् तस् झिमहिङ्) च विभक्ति- संज्ञाः स्युः । एकैकस्य त्रिकस्य एकवचनादय: संज्ञा उक्ता: ; आहत्य सप्त त्रिकाणि च सन्ति; तेषां प्रथमा द्वितीया... इत्यादि संख्याक्रमेण व्यवहार : सुगम इति सूत्रकारेण विशिष्य नोक्तः । उक्ताः प्रत्यया विभज्यन्ते— एक प्रथमा सु द्वितीया अम् तृतीया टा चतुर्थी पञ्चमी षष्टी सप्तमी सानुबन्धाः द्वि औ डस् डि बहु जस् औट्स् भिस् भ्यस् भ्यस् ओस् आम् ओस् सुप् भ्यां भ्यां ङसि भ्यां निरनुबन्धाः द्वि एक सू अम् आ ए अस् असू इ बहु औ अस् औ अस् भ्यां भिस् भ्यां भ्यसू भ्यां भ्यस् ओस् आम् ओस् सु । प्रत्ययानामेषां संग्रह आर्यया- स्वौजसमौट् च्छष्टाभ्यां भिस्ङेभ्यां भ्यस्ङसिभ्यां भ्यस् । (तदनु) ङसोसां ङयोस्सुप प्रत्ययमाला विभक्तीनाम् ॥ 'सु' इत्यत्र उकार:, 'ङसि' इत्यत्र इकारश्चानुनासिकत्वप्रतिज्ञानादित् ; जटौ 'चुटू' (१५) इति ; ङशौ 'लशक्कतद्धिते' (१६) इति । जसा- दिषु सकारः, अमादिषु मकारश्च ‘न विभक्तौ तुस्मा: ' (१२) इति नेत्संज्ञौ । इतामपनयनेन शोधितं प्रत्ययरूपमुपरि द्वितीयस्तम्भे दर्शि- तम् । निर्देशसौकर्ये (यथा—सु, टा, =स्, आ), विवेचनं (यथा- जस्, शस्, ङस्, ङसि = अस्), अनुगतधर्मसंपादनं ( यथा –डे, ङसि, ङस्, ङि = ङितः), प्रत्याहारकरणं ( यथा – सुट् इति औट्- टकारेण प्रत्याहारः) चानुबन्धानां प्रयोजनम् । अथोदाहियते- = =

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९४&oldid=347460" इत्यस्माद् प्रतिप्राप्तम्