पृष्ठम्:Laghu paniniyam vol1.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त अयकपूर्वाया अपि इत्वविकल्पार्थोऽयं योगः । नित्यस्त्रीलिङ्गा- द्विहितखाप: स्थाने जातस्य कात्पूर्वस्यातः इत्वं वा आपि । यथा— खट्विका, खट्वाका; । मालिका, मालाका । १३४ । आदाचार्याणाम् । (७-३-४९) पूर्वसूत्रविषये इत्वापवाद आत्वमाचार्याणां मते । यथा— खटवका — खट्वाका; मालका—मालाका | इति स्त्रीप्रत्ययाः । ७४ – सुबन्तप्रक्रिया | अथ लिङ्गविशिष्टेभ्यः प्रातिपदिकेभ्य उत्पन्नाया विभक्तेः प्रक्रियोच्यते- १६५ । स्वौजस, -मौद् छष्, टा भ्यां भिस्, ङे भ्यां भ्यस्, ङसि भ्यां भ्यस्, ङसोसाञ्, डन्योस्सुप् । (४-१-२) ङयाप्प्रातिपदिकात् इत्यधिकृतम् ; ङयाविति स्त्रीप्रत्ययोपलक्ष- णम् । लिङ्गविशिष्टात् प्रातिपदिकात् स्वौजसादयः प्रत्ययाः स्युः । एषामर्थो यथास्थानं वक्ष्यते । अथैषां प्रत्ययानां विभागः कथ्यते— ‘त्रीणि त्रीणि एकवचनद्विवचन बहुवचनान्येकशः' इत्यंशेऽनुवर्तमाने- १६६ । सुपः । (१-४-१०३) सुबिति स्वौजसादीनां प्रत्याहार: 'स्वौ' इति सुकारादारभ्य ‘सुप्' इति पकारेण । स्वादीनां एकैकं त्रिकं एकवचन द्विवचन बहु- वचनसंज्ञं स्यात् । तथा च – स्वादिषु सप्तानां त्रिकाणां प्रथममेक- चचनम्, द्वितीयं द्विवचनम्, तृतीयं बहुवचनम् । एषां विनियोगो- ऽन्यत्रोक्त:- = - - १६७ । बहुषु बहुवचनम् । (१-४-२१)GDE १६८ । कयोर्द्विवचनैकवचने । (१-४-२२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९३&oldid=347459" इत्यस्माद् प्रतिप्राप्तम्