पृष्ठम्:Laghu paniniyam vol1.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये अथ शब्दविभागः ॥ वर्णैरक्षराण्यारभ्यन्ते; अक्षरैः प्रकृतयः; प्रकृतिभिः पदानि; पदैर्वाक्यानि; वाक्यैर्भाषा इति हि क्रमः । तत्र वर्णा व्याख्याता वि- भक्ताश्च । अक्षराणां विभागश्छन्दःशास्त्रविषयोऽपि व्याकरणेऽपि कचि- दुपयुज्यत इति सोऽपि प्रदर्श्यते- १२१ । हूस्वं लघु । (१-४-१०) १२२ । संयोगे गुरु । (१-४-११) संयोगे तु परे ह्रस्वं गुरुसंज्ञं स्यात् । १२३ । दीर्घ च । (१-४-१२) दीर्घमपि गुरुसंज्ञं स्यात् । एवं च दीर्घम्, संयोगात् पूर्व च ह्रस्वमक्षरं गुरु; असंयोगात् पूर्वे ह्रस्वं लघु इत्यक्षरं द्विविधम् ॥ अथ प्रकृतेर्विभागः— १२४ । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । (१-२-४५) अर्थवच्छब्दरूपं (अक्षरसमुदायः) प्रातिपदिकसंज्ञमिति विधिः; धातुः प्रत्ययान्तश्चार्थवन्तावपि न प्रातिपदिकसंज्ञाविति निषेधः । को नाम धातुरित्यन्यत्रोक्तम् । यथा- १२५ । भूवादयो धातवः । (१-३-१) भू, एध, अद, हु इत्यादयो दशभिर्गणैः पठिताः क्रियावाचिकाः प्रकृतयो धातुसंज्ञाः । एवं च, प्रकृतिस्तावद् द्विविधा – क्रियावाचकाः दशगणीपरिगणिताः ‘भू सत्तायाम्' इत्यादयो धातवः, द्रव्यगुणसंबन्ध- बोधिकाः शेषाः सर्वा अपि प्रकृतयः प्रातिपदिकानीति । इति निषिद्धां प्रातिपदिकसंज्ञां पुनः क्वचिद्विदधाति- 6 अप्रत्ययः , १२६ । कृत्तद्धितसमासाथ । (१-२-४६)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७५&oldid=347441" इत्यस्माद् प्रतिप्राप्तम्