पृष्ठम्:Laghu paniniyam vol1.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दविभाग:] शिक्षाकाण्डः । कृत्प्रत्ययान्तास्तद्धितप्रत्ययान्ताः समासाश्च प्रातिपदिकसंज्ञाः स्युः । अष्टाध्याय्यास्तृतीयचतुर्थपञ्चमैरध्यायैः प्रत्यया विधीयन्ते । तत्र तृतीया- ध्यायगतानां धातवः प्रकृतयः; तेषु धातुप्रकृतिकेषु प्रत्ययेषु लकारसना- दिभिन्नाः सार्थकाः कृत्प्रत्यया इत्युच्यन्ते । चतुर्थपञ्चमयोरध्याययोर्वि- हिताः प्रत्यया: प्रातिपदिकेभ्यो भवन्ति; तेषु प्रातिपदिकप्रकृतिकेषु प्रत्ययेषु विभक्तिस्त्रीप्रत्ययभिन्नाः तद्धितप्रत्यया इत्युच्यन्ते । अन्योन्या- न्वितानां पदानामेकीकरणं समासः । तथा च द्विविधं प्रातिपदिकम् - व्युत्पन्नमव्युत्पन्नं चेति । कृदन्तस्तद्धितान्तः समासश्चेति व्युत्पन्नं त्रिवि- धम् । सखण्डं व्युत्पन्नम्, अखण्डमव्युत्पन्नम् । अव्युत्पन्नमपि वाचकम्, द्योतकमिति द्विविधम् । तत्र कस्यचित् सत्त्वस्य साक्षात् बोधकं वाचकम्; कस्यचित् संबन्धस्य प्रतीतिकरं द्योतकम् । द्योतकानां प्राति- पदिकानां 'निपात: ' इति संज्ञा कृता । उक्तो विभाग: पट्टिकया प्रदर्श्यते-- - प्रातिपदिकम् १. व्युत्पन्नम् अव्युत्पन्नम् कृत् तद्धितः -- समासः कर्ता, भासुरः । बुद्धिमान् घटत्वम् । राजपुरुषः, मातापितरौ । , वाचकं गौः, पटः, तण्डुलः, पुण्डरीकम् । - द्यांतकं, यद्वा, ( केवलः – च, तु, एव, न । ( उपसर्गः – प्रादि । निपातः व्युत्पन्नोऽव्युत्पन्न इति विभागो धातूनामप्यस्ति । यथा- १२७ । सनाद्यन्ता धातवः । (३-१-३२) सनादयः प्रत्यया येषामन्ते तेऽपि धातुसंज्ञाः स्युः ॥ सन्, क्यचू, काम्यच्, क्यङ्, क्यष्, णिङ्, णिचू, यङ्, संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिची यङचकौ तथा ।DF यही तथा DF आय ईयङिति प्रोक्ता एकादश सनादयः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७६&oldid=347442" इत्यस्माद् प्रतिप्राप्तम्