पृष्ठम्:Laghu paniniyam vol1.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । विसर्गो रस्यावसाने, झलां चर्चे च वा तथा । पदान्ते सस्य रुत्वं स्यादिसादावशि तच्छ्रतिः ॥ ४ ॥ [इस्, ईस्, उस्, ऊस् इत्यादिवदिकारादिस्वरपूर्वकस्य सकारस्य अशि पर एव रुरेफस्य श्रवणं भवति । हविस् + अत्र = हविरत्र । धनुस् + अत्र = धनुरत्र । ] असि रोरति हश्युत्वम्, [अस् इति ह्रस्वाकारपूर्वस्य सस्य रुत्वे कृते तस्य अति हशि च परे उत्वम् । यशस् + अत्र = यशोऽत्र । यशस् + हरः = यशोहरः । ] असासोराति चेचि यः । [अस्, आस् इत्यवर्णपूर्वस्य सस्य यो रुस्तस्य आकारे, इकारादिस्वरे वा परे यकार आदेशः । देवास् + अत्र = देवा अत्र | देवास् + आयान्ति = देवा आयान्ति। देवस् + इद्द = देव इह । देवास् + इह = देवा इह । ] = = = लघुप्रयत्नो वा योऽयम्, [अस्य यकारस्य लघुप्रयत्नो लोपो वा भवति । ] आसि लोपोऽति हश्यपि ।। ५ ।। - [देवास् + अत्र = देवा अत्र । अत्र लघुप्रयत्नोऽपि स्यादेव । देवास् + हरन्ति देवा हरन्ति । ] = रो रि लोपे पूर्वदीर्घो, रो विसर्गः कपोः खफोः । तत्र - - पौ च वा स्यातां, शर्विसर्गौ तथा शरि ॥ ६ ॥ विसर्गस्य सकार: स्यात् कुपुभिन्ने परे खरि । श्चुष्ट्र् चास्य श्चुष्टुयोगे, तस्मात् स्तावेव सश्रुतिः ॥ ७ ॥ अवाक्यादिस्थसंयोगे द्विर्वाच्यो वर्ण आदिमः । रहादौ तु परद्वित्वं द्विर्वाच्यश्छोऽप्यनादिमः ॥ ८ ॥ इति हल्संधिप्रकरणम् । SGDF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७४&oldid=347440" इत्यस्माद् प्रतिप्राप्तम्