पृष्ठम्:Laghu paniniyam vol1.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [स्वर संधि अथोक्तानां चतुर्णामपि सामान्यविधीनां यथायथमपवादा उच्यन्ते- ५० । पत्येधत्यूद्सु । (६-१-८९) यथा अकारः, ककारः इत्यादिवद्वर्णाः 'कार' -प्रत्ययेन निर्दिश्यन्ते, तथा भवतिः, एधतिरित्येवं तिप्रत्ययेन धातवो निर्दिश्यन्ते । अतः सूत्रे एत्येधतिभ्याम् ‘इ' 'एध' इत्येतौ धातू ग्राह्यौ । 'वृद्धिरेचि' इति पूर्वसूत्रं समग्रमनुवर्तते । 'आत्' इति च 'आद् गुणः' इत्यतोऽनुषज्यते । एचीत्येतत् 'एत्येधत्यूसु' इत्यस्य विशेषणं सत् ‘एजादौ’ इत्यर्थ बोधयति । तव 'ऊठ्' इत्यस्यासंभवात् एजादित्व- विशेषणं न संबध्यते । एच्प्रत्याहारेऽपि एकार एव संभवति । एवं च अवर्णा- देकाराद्योः ‘इ ’-‘ एघ’-धात्वोः परयोः ऊठि वा परे वृद्धिरेकादेश इति सूतार्थः । एत्येधत्योः पूर्वसूत्रेणैव सिद्धे 'एङि पररूपम्' इति वक्ष्यमाणमपवादं बाधितुमिदं वृद्धिविधानम् । ऊठस्तु आद्गुणं बाधितुम् । ऊठः स्वरूपं तद्विधौ स्पष्टीभविष्यति । अथोदाहियते- २८ - उप + एति = उपैति । उप + एधते उपैधते । प्रत्युदाहरणम् – एकारादिर्न चेत्, उप + इतः = उपेतः । स्यायमपवादः । यथा - ५१ । उपसर्गादृति धातौ । (६-१-९१) अवर्णान्तादुपसर्गाहकारादौ धातौ परे वृद्धिरेकादेश: । आद्गुण- 6 = प्र + एजते = प्रेजते । = प्र + ऋच्छति = प्राच्र्च्छति । अ + ऋ इत्यस्य, 'आर्' वृद्धिः । ५२ । एङि पररूपम् । (६-१-९४) अवर्णान्तादुपसर्गात् एङादौ धातौ परे परस्य रूपं (प्रकृते एङ्) एकादेशः स्यात् । पूर्वस्य लोप इति फलितम् । यथा- १. धातुलक्षणम् (१२५) सूत्रे दृश्यताम् । - प्र + ओषति = प्रोषति । - ‘वृद्धिरेचि' इत्यस्यायमपवादः । अस्यापवादः 'एत्येधत्यूठ्सु' इति । अपवादस्यापवदनात् प्रत्यावृत्त उत्सर्गः प्रतिप्रसव इत्युच्यते । तस्मात् उपैतीत्यादौ वृद्धेः प्रतिप्रसवः । अत्र वार्त्तिकम् - २. उपसर्ग: (१३३) सूत्रे लक्षितः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५&oldid=347411" इत्यस्माद् प्रतिप्राप्तम्