पृष्ठम्:Laghu paniniyam vol1.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षाकाण्डः । ॥ * ॥ ओत्वोष्ठयोः समासे वा ॥ अवर्णादोत्वोष्ठयोः एङि परे पररूपं विकल्पेन स्यात् । तच्च समास एव । प्रकरणम् ] यथा- = स्थूल + ओतुः = स्थूलोतुः, स्थूलौतुः । बिम्ब + ओष्ठः = बिम्बोष्ठः, बिम्बौष्ठः । प्रत्युदाहरणम् – (समासाभावे तु) तव + ओष्ठः तवौष्ठः । ५३ | ओमाङोश्च । (६-१-९५) अवर्णात् ओमिति प्रणवे आङ् इत्युपसर्गे च परे पररूपमेकादेशः स्यात् । आङो ङकार इत् । यथा - शिवाय + ओं नमः = शिवाय नमः । गुण + आढ्यः दया + अब्धि: - अद्य + ओढा (आ + ऊढा = ओढा) अयोढा । 'वृद्धिरेचि' इत्यस्यापपादः । शिव + एहि (आ + इहि = एहि) शिवेहि । ‘एत्येधत्यूठ्सु' इत्यस्यापवादः । + इहि = ५४ । अकः सवर्णे दीर्घः । (६-१-९६) अकः सवर्णेऽचि परे दीर्घ इति यणगुणयोरपवादः । अतः 'इको यणचि' 'आद्गुणः' इत्युभयोरपि सूत्रयोः असवर्णोऽजेव विषयः । अक: सवर्णोऽच् अगेव ह्रस्वदीर्घादिभेदभिन्नः । अकोऽकि परे स्ववर्णदीर्घ इति फलितम् । अथोदाहियते- मुर + अरिः = = = मुरारिः । = = गुणाढ्यः । = दयाब्धिः । 6 अधि + ईशः - यदु + उद्वहः = यदूद्रहः । २९ • अधीशः । = पातृ + ऋषभः = पातॄषभः । रमा + आलिङ्गितः = रमालिङ्गितः । ५५ । एङः पदान्तादति (पूर्व:) । (६-१-१०९) पूर्वः पूर्वरूपम् । पदान्तादेङ: अति (हस्वे अकारे) परे पूर्वरूपं (= एङ्) एकादेश: स्यात् । अयमेकः पदान्तसंधिः । अन्ये तु विशेष- कथनाभावादुभयसंधयः । यथा - हरे + अव = हरेव । विष्णो + अव = विष्णोव । अत्र स्थितः अकारः पूर्वरूपेण लुप्त इति द्योतयितुं ऽ इति प्रश्लेषाख्यं चिह्नं निवेश्यते । विष्णोऽव । इदं सूत्रम् 'एचोऽयवायावः' इत्यस्यापवादः । " यथा— हरेऽव, यथा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४६&oldid=347412" इत्यस्माद् प्रतिप्राप्तम्