पृष्ठम्:Laghu paniniyam vol1.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुंवद्भावः] आकाङ्क्षाकाण्डः । १६७२ । मातरपितरावुदीचाम् । (६-३-३२) एकशेषाभावपक्षे विकल्पोऽयम् । तेन त्रीणि रूपाणि - मातापितरौ, मातरपितरौ, पितरौ इति । ४२५ 10105) ३. पुंवद्भावः ॥ १६७३ । स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रिया- मपूरणीप्रियादिषु । (६-३-३४) भाषितपुंस्कात्परस्य ऊभिन्नस्य स्त्रीप्रत्ययस्थ समानाधिकरणे स्त्री- लिङ्गे उत्तरपदे पुल्लिङ्गस्येव रूपं स्यात् न तु पूरण्यां प्रियादौ वा उत्तरपदे । यथा – रूपवती भार्या यस्य स रूपवद्भार्यः । चित्रा गावो यस्य स चित्रगुः । युवतिर्भार्या यस्य सः युवभार्यः । ऊङन्तस्य तु रम्भोरूभार्य इत्येव । अनेकपदे बहुव्रीहौ उत्तरपदस्य परत्वाभावात् पूर्वपदस्य न पुंवद्भावः । चित्राजरः । कर्मधारयपूर्वपदे तूभयो: पुंवद्भावेन चितजरगुः । अपूरणीप्रियादिष्वित्युक्तेः कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । अत पञ्चमी इति अप्प्र- त्ययेन समासान्तेन वक्ष्यमाणेन रूपनिष्पत्तिः । कल्याणी प्रिया यस्य स कल्याणीप्रियः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्तिः, स्वसा, कान्ता, समा, चपला, दुहिता, वामा इत्यादिः प्रियादिः || । १६७४ । तसिलादिष्वा कृत्वसुचः । (६-३-३५) तसिलादिषु कृत्वसुजन्तेषु तद्धितेषु परेषु स्त्रियाः पुंवत् । तसि- लादयः परिगणिताः कात्यायनेन— तत्रसौ घश्चरट्कल्परूपब्देशीयपाशपः । जातीयथाल्तिल्थ्यनश्च तसिलाद्यास्त्रयोदश ॥ यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४४&oldid=348041" इत्यस्माद् प्रतिप्राप्तम्