पृष्ठम्:Laghu paniniyam vol1.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ लघुपाणिनीये तस्याः ततः । बह्वीषु, बहुत्र इत्यादि । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । बह्वीभ्यो, बहुशः। त्वतलोर्गुणवचनस्य | शुक्लाया भावः शुक्लता, शुक्लत्वम् । ३. कुक्कुट्यादीनामण्डादिषु । कुक्कुट्या अण्डं कुक्कुटाण्डम् । भस्याढे तद्धिते । हस्तिनीनां समूहो हास्तिकम् । ढे तु—रोहिण्या अपत्यं रौहिणेयः । ४. - सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । तस्या मुखं तन्मुखम् । तस्या इदं तदीयं, तामर्थयतीति तदर्थी, तां कामयते तत्काम्यते । १६७५ । क्यमानिनोच । (६-३-३६) क्यडू — एनावाचरति एतायते । मानिन्— दर्शनीयमानिनी । १६७६ । न कोपधायाः । (६-३-३७) ककारोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः, रसिकाभार्यः । ४१३ १६७७ । संज्ञापूरण्यो । (६-३-३८) दत्ताभार्यः, पञ्चमीभार्यः । १. २. ५. - [समासप्रक० १६७८ | वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३९) स्त्रौघ्नीभार्यः । माथुरीमानिनी । १६७९ | स्वानाच्चेतः । (६-३-४०) १६८० । जातेश्च । (६-३-४१) स्वाङ्गात् जातेश्च विहितः स्त्रीप्रत्ययो न पुंवत् । यथा— सुकेशीभार्यः । शूद्राभार्यः । ब्राह्मणीभार्यः । १६८१ । पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२) अपूरणीप्रियादिष्विति निषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसू- - यते । यथा- महानवमी, कृष्णचतुर्दशी, महाप्रिया । पाचिका चासौ स्त्री च पाचकस्त्री । पञ्चमी चासौ भार्या च पञ्चमभार्या । ब्रह्मणी चासौ भार्या च ब्रह्मणभार्या । एवं– पाचकजातीया, पाचकदेशीया । S

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४५&oldid=348042" इत्यस्माद् प्रतिप्राप्तम्