पृष्ठम्:Laghu paniniyam vol1.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये (P३-१०६) १६६६ । षष्ठ्या आक्रोशे । (६-३-२१) चोरस्य कुलम् । आक्रोशाभावे तु– ब्राह्मणकुलम् । ४२४ [समासप्रक० ॥ * ॥ वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु ॥ वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः, – पश्यन्तमनादृत्य यो हरतीति अनादरे - भावलक्षणषष्ठ्या अलुक् । १६६७ । पुत्रेऽन्यतरस्याम् । (६-३-२२) षष्ठया आक्रोशे इत्येव । दास्या पुत्रो, दासीपुत्रो वा । १६६८ । ॠतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३) विद्यासम्बन्धवाचिनः योनिसम्बन्धवाचिनो वा ऋदन्तात् षष्ठया अलुक् । उत्तरपदमपि सम्बन्धवाचकमेव भवितुमर्हति । होतुरन्तेवासी । पितुःपुत्रः । १६६९ । विभाषा स्वसृपत्योः । (६-३-२४) ऋदन्तात् षष्ठया अलुग्वा । मातुःस्वसा, मातुःष्वा, मातृष्वसा । पितुःखसा, पितुःष्वसा, पितृष्वसा । लुकि नित्यं षत्वम् । अलुकि तु वा तत्प्रकरणे विहितम् ।। २. आनङ् ॥ १६७० । आनतो द्वन्द्वे । (६-३-२५) विद्यायोनिसम्बन्धेभ्य इत्यनुवर्तते । उत्तरपदे इत्यधिकारश्चानुब- नाति । आनङो नकारस्य प्रातिपदिकान्तलोपः । होतापोतारौ । मातापितरौ । १६७१ । देवताद्वन्द्वे च । (६-३-२६) ऋत इति नानुवर्तते । मित्रावरुणौ । सूर्याचन्द्रमसौ वेदप्रसिद्ध- देवताद्वन्द्व एव । तेन हरिहरावित्यादौ नानङ् । श्री देवता F अग्नीषोमौ । अग्नीवरुणौ । द्यावापृथिव्यौ इत्यादिरूपविशेषाश्च देवताद्वन्द्वे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४३&oldid=348040" इत्यस्माद् प्रतिप्राप्तम्