पृष्ठम्:Laghu paniniyam vol1.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ लघुपाणिनीये ४. पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय – पर्यध्ययनः । [समासप्रक● ५. निरादयः क्रान्ताद्यर्थे पञ्चम्या | निष्कान्तः कौशाम्ब्या निष्कौशाम्बिः । निर्मलम् । गतिप्रसङ्गात्तत्संज्ञाविधिर्मध्ये कथ्यते- १५९८ । ऊर्यादिच्चिडाचश्च । (१-४-६१) ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः । यथा— ऊरीकरोति । ऊरीकृत्य । उररीकृतं, स्वाहाकृत्य । शुक्लीकरोति । पटपटाकरोति । - १५९९ । अनुकरणं चानितिपरम् । (१-४-६२) यथा – फूत्कृत्य, खाट्कृत्य । इतिपर तु 'खाडितिकृत्वा निरष्ठीवत्' । १६०० । आदरानादरयोः सदसती । (१-४-६३) सत्कृत्य = पूजयित्वा । असत्कृत्य = अनादृत्य । १६०१ । भूषणेऽलम् । (१-४-६४) अलंकृत्य = भूषयित्वा । १६०२ । साक्षात्प्रभृतीनि च (विभाषा कृञि) । (१-४-७४) साक्षात्कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य मिथ्या कृत्वा इत्यादि । अथ प्रकृतः समासविधिरेवानुबध्यते । उक्ता गतिसमासाः । अन- न्तरमुपपदसमासा उच्यन्ते - १६०३ । उपपदमतिङ् । (२-२-१९) नित्यमिति वर्तते । उपपदं समर्थेन शब्देन नित्यं समस्यते तिङन्ताघटितश्चायं समासः । 'तत्रोपपदं सप्तमीस्थम्' इति कृद्विधा- वुपपदानि तत्र तत्रोक्तानि । यथा— कुम्भकारः, स्थण्डिलशायी, कर्णेजपः । अतिङ् इति निषेधो ज्ञापयति 'सुप्सुपा' इत्यधिकारोऽत्र न सम्बध्यत इति । ज्ञापकसिद्धश्चार्थो वार्त्तिककारेण कण्ठतः कथितः:- DE ॥ * ॥ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३१&oldid=348028" इत्यस्माद् प्रतिप्राप्तम्