पृष्ठम्:Laghu paniniyam vol1.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्पुरुषः ] आकाङ्क्षाकाण्डः ॥ १५९३ । अर्धे नपुंसकम् । (२-२-२) अर्धे समांशः । अर्धो यः कोऽप्यंशः । अर्धे पिप्पल्याः अर्धपिप्पली | ग्रामस्यार्धो ग्रामार्ध इत्येव । । १५९४ । कालाः परिमाणिना । (२-२-५) मासो जातस्य यस्य स - मासजातः । संवत्सरजातः । व्यहजातः इत्यादि । १५९५ । नञ् । (२-२-६) नञ् इति निपातः समर्थेन सुपा समस्यते । यथा- न ब्राह्मणः अब्राह्मणः । न सितः असितः । नञो नकारलोपो वक्ष्यते ।। ४११ १५९६ । षष्ठी । (२-२-८) षष्ठयन्तं समर्थेन सुबन्तेन समस्यते । यथा - - राजपुरुषः, वसिष्ठशिष्यः, गुरुपुत्रः, जगत्त्रष्टा, शास्त्राध्यापकः, सूत्रकृत्, बन्धु- कृत्यं, क्षीरपानम् इत्यादि । षष्ठीतत्पुरुषनिषेधाः प्रायिका इति नात्रोपात्ताः ॥ १५९७ । कुगतिप्रादयः (नित्यम्) | (२-२-१८) एते समर्थन सह नित्यं समस्यन्ते । प्रादीनां क्रियायोग एव गतिसंज्ञेत्यन्यत्रापि समासार्थ पृथग्रहणम् | कुशब्दः कुत्सितवाच्यव्यय- मेव गृह्यते । यथा- - कुत्सितः पुरुषः कुपुरुषः । प्र दत्वा प्रदाय । पूजितः पुरुषः सुपुरुषः । दुष्टो मार्गः दुर्मार्गः । आपिङ्गलम् । प्रादिविषये वार्तिकानि- १. प्रादयो गताद्यर्थे प्रथमया । प्रगत आचार्यः प्राचार्यः । प्रपितामहः, प्रपौत्रः 1 २. अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तमिन्द्रियाणि अतीन्द्रियम् । अतिमानुषम् । ३. अवादयः क्रुष्टाद्यर्थे तृतीयया । अवक्रुष्टः कोकिलया अवकोकिलः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३०&oldid=348027" इत्यस्माद् प्रतिप्राप्तम्