पृष्ठम्:Laghu paniniyam vol1.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० लघुपाणिनीये शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥ [समासप्रक० ॥ * ॥ शाकप्रियः पार्थिवः शाकपार्थिवः । अयं मध्यमपदलोपी समास इत्युच्यते । १५८८ । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणी- प्रवक्तृश्रोत्रियाध्यापक धूर्तैर्जाति: । (२-१-६५) पोटादिभिः सह जातिवाचकं सुबन्तं समस्यते । समानाधिकरण- तत्पुरुषस्य कर्मधारयसंज्ञोक्ता । कर्मधारये च पूर्वपदस्य पुंवद्भावो वक्ष्यते । यथा - इभपोटा । अश्वयुवतिः । गोधेनुः । महिषगृष्टिरित्यादि । - १५८९ । प्रशंसावचनैश्च । (२-१-६६) जातिरित्येव । गोमतल्लिका | पुरुषप्रकाण्डम् । अश्वतल्लज इत्यादि । १५९० । वर्णो वर्णेन । (२-१-६९) कृष्णश्च रक्तश्च कृष्णरक्तः । नीललोहितः । कृष्णशारः । १५९१ । मयूरव्यंसकादयश्च । (२-१-७२) एते निपात्यन्ते । मयूरो व्यंसको मयूरव्यंसकः । १. एहीडादयोऽन्यपदार्थे - एहीडम्, एहियवं वर्तते । एहिवाणिजा, अपेहिवाणिजा, एहिखागता, अपहि- स्वागता क्रिया |-- २. 'जहि' कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । जहिजोडः, जहिस्तम्बः, उज्जहिस्तम्बः । ३. आख्यातमाख्यातेन क्रियासातत्ये । ‘अश्नीत पिबत' इति यत्र सततमुच्यते सा अश्नीतपिबता । एवं खादतमोदता, उद्धरोत्सृजा, पचतभृज्जता, इत्यादि । १५९२ । पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । (२-२-१) पूर्वादयोऽवयववाचका अवयविना समस्यन्ते । षष्ठीसमासे पूर्वादीनां पूर्वनिपातो न खादिति वचनम् । यथा— पूर्व कायस्य पूर्वकायः । उत्तरकायः । इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२९&oldid=348026" इत्यस्माद् प्रतिप्राप्तम्