पृष्ठम्:Laghu paniniyam vol1.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्पुरुषः] » आकाङ्क्षाकाण्डः । ४०९ समाहारे दिक्पूर्वपदत्वं न संभवति । पञ्चगवधन इत्यादौ प्रक्रिया वक्ष्यते- १५८३ । संख्यापूर्वो द्विगु: । (२-१-५२) पूर्वसूत्रेण विहिते समासे संख्यापूर्वपदो द्विगुसंज्ञः । ‘द्विगोर्लुग- नपत्ये' इति तद्धितलुक् समासान्तादयश्च प्रयोजनम् । यथा— - पञ्चसु कपालेषु संस्कृतः पञ्चकपालः– तद्धिते लुक् । पञ्चनावप्रियः– ‘नावो द्विगोः' इति समासान्तः । त्रयाणां लोकानां समाहारस्त्रिलोकी – ‘द्विगोः' इति ङीप् । १५८४ | उपमानानि सामान्यवचनैः । (२-१-५५) उपमानवाचकानि साधारणधर्मवाचिभिः समस्यन्ते । यथा- मेघ इव श्यामो मेघश्यामः । चन्द्र इव सुन्दरश्चन्द्रसुन्दरः । १५८५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६) उपमेयं सुबन्तम् उपमानभूतैर्व्याघ्रादिपदैः सह समस्यते साधा- रणधर्मो यदि न प्रयुज्यते । यथा - पुरुषव्याघ्रः, राजसिंहः, नरर्षभः, राजहंसः । एषु शूरत्वादिः साधारणधर्मो न प्रयुक्तः । तत्प्रयोगे तु पुरुषो व्याघ्र इव शूर इति वाक्यमेव || १५८६ । विशेषणं विशेष्येण बहुलम् । (२-१-५७) विशेषणवाचि सुबन्तं समानाधिकरणेन विशेष्येण सह बहुलं समस्यते । यथा- - । नीलं च तदुल्पलं च नीलोल्पलम् । रक्ताशोकः । बाहुलकात् कृष्णसर्पादौ नित्यः समासः । रामो जामदग्न्य इत्यादौ वाक्य- मेव । नीलोल्पलमित्यादौ विकल्पञ्च । वैयाकरणख सूचिरित्यादौ कुत्सित- वाचिन: पूर्वनिपातः अणककुलाल इत्यादौ परनिपातश्च बाहुलकादेव सिध्यति । अनेनैव सिद्धे 'पूर्वकालैक' इत्यादि: पूर्वनिपातनियमार्थः ॥ १५८७ । क्तेन नविशिष्टेनानञ् । (२-१-६०) नब्रूसहितेन क्तान्तेन समानाधिकरणेन तद्रहितं कान्तं समस्यते। यथा - कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२८&oldid=348025" इत्यस्माद् प्रतिप्राप्तम्