पृष्ठम्:Laghu paniniyam vol1.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[Dog ४०८ लघुपाणिनीये १५७८ । सप्तमी शौण्डैः । (२-३-४०) इदमप्युपलक्षणमेव । अक्षेषु शौण्डः अक्षशौण्डः । ग्रामे वास्तव्यो प्रामवास्तव्यः । चरणे न्यस्तं चरणन्यस्तम् । १५७९ । पात्रेसमितादयश्च । (२-१-४८) एते सप्तमीतत्पुरुषा निपात्यन्ते । निपातात् पूर्वपदे सप्तम्या लुगभावः । यो भोजनकाल एव सन्निधत्ते न तु कार्येषु स पात्रेसमितः गेहेनर्दी, गेहेशूरः इत्यादि । १५८० । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधि- करणेन । (२-१-४९) पूर्वकाल इत्यर्थनिर्देशः, स्वरूपग्रहणमन्येषाम् । पूर्वकालक्रिया- वाचकं सुबन्तम्, एकादीनि च समानाधिकरणेन समर्थेन सुबन्तेन वा समस्यन्ते । यथा— पूर्वे स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । कृष्टसमीकृतं क्षेत्रम् । दग्धप्ररूढस्तरुः। भुक्तमुक्तं माल्यम् । एकवीरः । सर्वविद्या | जरन्नैयायिकः। पुराणमीमांसकः । स नववैद्यः . केवलवैयाकरणः । १५८१ । दिक्संख्ये संज्ञायाम् । (२-१-५०) समानाधिकरणेनेत्येव । उत्तरकुरवः । दक्षिणकोसलाः । पञ्चाम्राः । सप्तर्षयः । १५८२ । तद्धितार्थोत्तरपदसमाहारे च । (२-१-५१) तद्धितार्थे विषये, उत्तरपदे परे, समाहारे च वाच्ये दिक्संख्ये समानाधिकरणेन सुबन्तेन समस्येते । यथा- । तद्धितार्थे– पूर्वस्यां शालायां भवः पौवंशालः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । उत्तरपदे – पूर्वी शाला प्रिया यस्य – स पूर्वशालाप्रियः । - 357951 [संमासप्रक० पञ्च गावो धनं यस्य - स पञ्चगवधनः । SGDF समाहारे – पञ्चानां वटानां समाहारः पञ्चवटी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२७&oldid=348024" इत्यस्माद् प्रतिप्राप्तम्