पृष्ठम्:Laghu paniniyam vol1.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहुव्रीहिः ] आकाङ्क्षाकाण्डः । १६०४ । अमैवाव्ययेन । (२-२-२०) अव्ययेनोपपदस्य समासः अमन्तेनैव । स्वादुङ्कारम् । १६०५ | तृतीयाप्रभृतीन्यन्यतरस्याम् । (२-२-२१) 'उपदंशस्तृतीयायाम्' इत्यतः प्रभृति यान्युपपदानि तान्यमन्ते- नान्यतरस्यामेव समस्यन्ते । मूलकोपदंश, मूलकेनोपदंशं वा भुङ्क्ते । १६०६ । क्त्वा च । (२-२-२२) तृतीयाप्रभृतीनि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य, उच्चैः कृत्वा । 32 १६०७ । शेषो बहुव्रीहिः । (२-२-२३) १६०८ । अनेकमन्यपदार्थे । (२-२-२४) अनेकं सुबन्तमन्यपदार्थे वर्तमानं समस्यते, बहुव्रीहिश्च समासः । प्रथमार्थमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । यथा— प्राप्तमुदकं यं स प्राप्तोदको ग्रामः ऊढा रथो येन स ऊढरथोऽनङ्कान् उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः उद्धृतमोदनं यस्याः सा उद्धृतौदना स्थाली–पञ्चमी चित्रा गावो यस्य स चित्रगुर्देवदत्तः —द्वितीयांबहुव्रीहिः । - तृतीया -चतुर्थी - षष्ठी - " १४१३ "" "" वीराः पुरुषाः यस्यां सा वीरपुरुषा नगरी- सप्तमी ‘सुसूक्ष्मजटकेशेन सुलभाजिनवाससा । पुत्री पर्वतराजस्य कुतो हेतोर्विवाहिता ॥ ) बहुपदबहुव्रीहिः । १. बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम् । तथैवोदाहृतम् । तेन पञ्चभिर्भुक्तं यस्य स पञ्चभुक्त इति बहुव्रीहिर्न भवति । २. सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च ॥ कण्ठे स्थितः कालो यस्य सः कण्ठेकालः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्र्मुखः । मृगाक्षी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३२&oldid=348029" इत्यस्माद् प्रतिप्राप्तम्