पृष्ठम्:Laghu paniniyam vol1.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये १३२३ । द्वारादीनां च । (७-३-४) वृद्धिप्रसङ्गे पूर्वोक्तं स्यात् । एषु यवयोः पदान्तत्वाभावादप्राप्तौ वचनम् । यथा - द्वार + इक – दोवारिकः । द्वार, — वर, स्वाध्याय, व्यल्कश, – स्वस्ति, स्वर स्व इत्यादि । . ३६८ १३२४ | न्यग्रोधस्य च केवलस्य । (७-३-४) यथा- -न्यप्रोध + अण् = नैयप्रोधम् । प्रत्यु० – ('केवलस्य' किम् ? ) न्याप्रोधमूला: शालयः । १३२५ । न कर्मव्यतीहारे । (७-३-६) यथा –व्यवक्रोश + ण = व्यावक्रोशी | १३२६ । स्वागतादीनां च । (७-३-७) नेत्येव – स्वागत + इक (क्) = स्वागतिकः । एवं व्यावहारिकं, स्वापतेतयम् इत्यादि । १३२७ । उत्तरपदस्य । (७-३-१०) अथ पूर्वपदवृद्धेरपवाद उत्तरपदवृद्धिर्विधीयते इत्यधिकारः । १३२८ । अवयवाहतोः । (७-३-११) अवयववाचिनः परस्य ऋतुवाचिन उत्तरपदस्याचां मध्ये आद्यस्य वृद्धिर्जिति णिति किति च तद्धिते । यथा – पूर्ववर्षा + इक ( क ) चार्षिकमित्यादि । = पूर्ववार्षिकम् । एवमपर- १३२९ । सुसर्वार्धाज्जनपदस्य । (७-३-१२) [तद्धितप्र० यथा – सुपञ्चाल + वुञ्— सुपाञ्चालकः । - १३३० | संख्यायाः संवत्सरसंख्यस्य च । (७-३-१५) संख्यायाः परस्य संवत्सरशब्दस्य संख्यावाचकस्य च वृद्धिर्जिदादिषु । यथा- द्विसंवत्सर + इकक् = द्विसांवत्सरिकः । द्विषष्टि + इकक् = द्विषाष्टिकः । - १३३१ । वर्षस्याभविष्यति । (७-३-१६) यथा- द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । १३३२ । परिमाणान्तस्यासंज्ञाशाणयोः । (७-३-१७)

यथा – द्विनिष्क + इकक् = द्विनैष्किकम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८७&oldid=347983" इत्यस्माद् प्रतिप्राप्तम्