पृष्ठम्:Laghu paniniyam vol1.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितकार्याणि ] निरुक्तकाण्ड: । १३३३ । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१९) एतदन्तेऽङ्गे पूर्वोत्तरपदयोर्वृद्धिनिंदादौ । यथा—oofre = = सुहृद् + अणु = सौहार्दम् । सुभग + घ्यञ् = सौभाग्यम् । सुरसिन्धु + अण् सौरसैन्धवम् । ३६९ P3W १३३४ | अनुशतिकादीनां च । (७-३-२०) उभयपदवृद्धिः स्यात् । –अनुशतिक + अण् = आनुशातिकः । ऐहलौकिकं, 16- पारलौकिकं, पारस्त्रैणेयः, सार्वभौमः । alge pi १३३५ | देवताद्वन्द्वे च । (७-३-२१) उभयपदवृद्धिः । — – अग्निमरुत् + अण्— आग्निमारुतम् । १३३६ । नञः शुचीश्वरक्षेत्रशकुशलनिपुणानां (पूर्वस्य वा) । (७-३-३०) नञः परेषां शुच्यादीनामुत्तरपदस्य वृद्धिः, पूर्वपदस्य तु वा । यथा - अशुचिं + अण्—अशौचम्, आशौचम् । अनीश्वर + घ्यञ्—अनैश्वर्यम्, आनैश्वर्यम् । एवमन्येषामपि । १३३७ । यथातथयथापुरयोः पर्यायेण । (७-३-३१) नञः परयोरनयोः पर्यायेणोभयपदवृद्धिः । यथा - आयथातथ्यम्, अयाथातथ्यम् । आयथापुर्यम्, अयाथापुर्यम् । SP अथ भसंज्ञाकार्याणि एषु 'वसोः सम्प्रसारणम्' 'अल्लोपोऽनः' इत्यादीनि कतिचन पूर्वमेवोक्तानि । 'भस्य' इत्यधिकारे 'अल्लोपोऽनः' इत्यतो लोप इत्यनुवर्तमाने- १३३८ । ति विंशतेति । (६-४-१४२) डिति प्रत्यये परे भसंज्ञस्य विंशतिशब्दस्य तिकारो लुप्यते । यथा— विंशति + डट्—विंशः । १३३९ । टेः । (६-४-१४३) अस्य टेर्लोप: डिति । यथा— ——–त्रिंशत् + डट्——त्रिंशः । She श: 24

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८८&oldid=347984" इत्यस्माद् प्रतिप्राप्तम्