पृष्ठम्:Laghu paniniyam vol1.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितप्र ०] निरुक्तकाण्डं: । १३१९ । किति च । (७-२-११८) किति तद्धिते चाचामादरचो वृद्धिः । यथा- शक्तिशब्दात् ‘ईकक् ’-प्रत्यये ‘शाक्तकिः’ । - ३६७ १३२० । देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । (७-३-१) देविकादीनां वृद्धिप्रसङ्गेऽचां मध्ये आद्यस्य आकार एव वृद्धिः । एषां सूत्रा- णामङ्गाधिकारान्तर्गतत्वात् 'पदाङ्गाधिकारे तस्य च तदन्तस्य च ' इति तदन्तानाम- प्युक्तं भवति । यथा - – देविकाकूले भवा इत्यणप्रत्यये दाविकाकूला: शालयः । एवम् अण्प्रत्यये शांशप, दात्यूह इत्यादि । १३२१ । केकयमित्रयुप्रलयानां यादेरियः । (७-३-२) एषां वृद्धिप्रसङ्गे यकारादेर्भागस्य 'इय' इति आदेशश्च स्यात् । यथा केकय + अण्—कैकेयः, मित्रयु + वुञ्—मैत्रेयिका, प्रलय + अण्— प्रालेयम् । मलयशब्दस्यापि केरलीया 'इया' देशमुशन्ति । यथा- मलये भवमित्यर्थेऽण्प्रत्यये मालेयं चन्दनम् । “काले कदाचिदथ कामिजनानुकूले मालेयमारुतविलोलितमालतीके । लीलारसेन विचरन् विपिने विनोदलोलां समीरणसुतो रमणीमभाणीत् ॥” १३२२ । न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् । (७-३-३) पदान्ताभ्यां यकारवकाराभ्यां परस्य अचां मध्ये आद्यस्य न वृद्धिः । किंतु ताभ्यां पूर्वो यथासंख्यम् ऐकार-औकारौ आगमौ स्तः । इवर्ण-उवर्णान्तानामेकाचां पदानामादिवृद्धिप्रसक्तौ यणादेशसंधिं विश्ले- ष्य इ-उवर्णयोर्यथाप्राप्तं वृद्धिं कृत्वा यणादेशस्थाने यणागमः कार्य इति फलितम् । यथा- era - व्याकरण + अण् इत्यत्र वि + आकरण इति सन्धि विश्लेष्य इकारस्य ऐकारं वृद्धिं कृत्वा यकारागमयोजने वैयाकरण इति रूपम् । एवं स्वश्व + अण्–सु + अश्व + अण्—सौ + अश्व + अण्— सौवश्वः । इदं ज्ञापयति अन्यत्र संधिकार्य कृत्वैव तद्धितः कार्य इति । तेन सूत्थितस्यापत्यं सौत्थितिरित्येव । प्रत्यु० – ( ' पदान्ताभ्याम्' किम् ?) यष्टि + ईकक्याष्टिकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८६&oldid=347982" इत्यस्माद् प्रतिप्राप्तम्