पृष्ठम्:Laghu paniniyam vol1.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुष्वित्कार्याणि] परिनिष्ठाकाण्डः । १२१० । समुच्चये सामान्यवचनस्य । (३-४-५) समुच्चये लोडिधौ सामान्यवाची धातुरनुप्रयोक्तव्यः । तथैव उभयमप्युदाहृतम् ॥ १२११ । अभिज्ञावचने लृट् । (३-२-११२) भूत इत्यनुवर्तते । अभिज्ञा स्मृतिः । तद्बाचिनि धातावुपपदे भूते । यथा-मरसि कृष्ण गोकुले वत्स्यामः । १२१२ । न यदि । (३-२-११३) यच्छब्दसहितेऽभिज्ञावचने उपपदे भूते न लट् । यथा— अभिजानासि कृष्ण यद् गोकुले अवसाम । १२१३ । विभाषा साकाङ्क्ष । (३-२-११४) लक्ष्यलक्षणभावेन साकांक्षत्वे उक्तविषये लृड्डा स्यात् । यथा- स्मरसि कृष्ण गोकुले वत्स्यामः, तत्र गाश्चारयिष्यामः । अत्र वासो लक्षणम् | चारणं लक्ष्यम् । पक्षे लङपि ॥ 11 SPPUD १२१४ । लट् स्मे । (३-२-११८) - स्मशब्दे उपपदे भूते लट् । लिटोऽपवादः । यथा— यजति स्म युधिष्ठिरः । ३३७ एवं परिसमाप्ते धात्वधिकारे धातूनां नानाविधानुबन्धकरणस्य विकृतैर्वर्णैः पाठस्य च फलं प्रक्रियासर्वस्वादुद्धृत्य प्रदर्श्यते- “ उदात्तेत्त्वानुदात्तेत्त्वस्वरितेत्त्वविभागकृत् । एधादीनामकारोऽन्त्यः कथादीनां त्ववृद्धिकृत् ॥ – SGPA E एध वृद्धौ – एधते । गद व्यक्तायां वाचि–गदति । लिह आस्वादने — लेढि, लीढे । 22

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५६&oldid=347951" इत्यस्माद् प्रतिप्राप्तम्