पृष्ठम्:Laghu paniniyam vol1.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ लघुपाणिनीये आदिदीदिच्च निष्ठायामनित्वार्थं कृतावुभौ । भावादिकर्मणोर्वेट् स्यादादितामिति भिद्यते ॥ [ धातुष्वित्कार्याणि ञि ष्विदा—प्रस्वेदितः प्रविन्नो वा चैत्रः । स्विन्नं स्वेदितं बा चैत्रेण | मदी हर्ष- ग्लेपनयोः—मत्तः, मत्तवान् । इदित्त्वं हि नुमर्थं स्यादुदित्त्वं क्त्वीडिकल्पकृत् । ऊदित्त्वं हीडिकल्पार्थमृदिञ्चङ्हस्वबाधकः ।। णिदि कुत्सायां – निन्दति । असु क्षेपे- असित्वा, अस्त्वा । - - त्रपूष् लज्जायां—त्रपिष्यते, त्रप्स्यते । नाथू याच्ञायां- -अननाथत् । लदित्त्वं लुङयर्थै स्यादेदित्त्वं सिच्यवृद्धिकृत् । निष्ठानत्वार्थमोदित्त्वं ङित्तङर्थो द्वयाय बित् ॥ शक्ल शक्तौ–अशकत् । कटे वर्षावरणयोः— अकटीत् । ओ हाक् त्यागे- हीन:, हीनवान् । डीङ् विहायसा गतौ —डयते । णीज् प्रापणे––नयति, नयते । इरित्त्वमविकल्पार्थं षित्त्वं भावेऽविधायकम् । नि वर्तमाने कार्थोऽयं डुटुशब्दौ कत्रचथुचफलौ ॥ रुधिर् आवरणे—अरुधत्, अरौत्सीत् । क्षमूषू सहने – क्षमा | जि विदा - स्विन्नः । डु कृञ् करणे – कृत्रिमम् । टु दि समृद्धौ–नन्दथुः । नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजश्शकारचे षाट्टवर्गस्तवर्गजः ॥ स्रन्सु = स्रंसु । अन्चु अञ्चु । व्रस्चू = ब्रश्चू | ष्थिवु = ष्ठिवु । अनुदात्तात्मता धातोरि निषेधार्थमुच्यते । उदात्तत्वं च सेत्वार्थमिति सर्वत्र दृश्यताम् ॥ " शक्ल – शक्ष्यति । वद – वदिष्यति । - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५७&oldid=347952" इत्यस्माद् प्रतिप्राप्तम्