पृष्ठम्:Laghu paniniyam vol1.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [लकारार्थप्रकरणम् गतवानस्मि काशीम्— अत्रास्मीति कथनकालापेक्षया गतवानिति भूते क्तत्रतुः । कीर्तिमानासीन्नलो राजा - अत्र कीर्तिरस्यास्तीति कीर्तिमान् इति तद्धिते अस्तीति वर्तमानकालः आसीदिति भूतापेक्षया । १२०७ । क्रियासमभिहारे लोड् लोटो हिवौ वा च तध्वमोः । (३-४-२) पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । तस्मिन् द्योत्ये धातोः सर्वलकारापवादो लोट | लोटश्च सर्वतिङपवादो हिस्खौ । (आन्त- रतम्यात् परस्मैपदिनां हि आत्मनेपदिनां स्व:) । तध्वमोर्विषये परं हस्खौ विकल्पेनैव । ‘क्रियासमभिहारे द्वे वाच्ये' इति वार्त्तिकात् द्वित्वम् । यथा- – लुनीहि लुनीहीत्ययं लुनाति — इमे लुनन्ति इत्यादि । ३३६ लोट: सर्वलकारापवादत्वात् - लुनीहि लुनीहीत्ययमलुनात्, लविष्यति वा । एवमधीष्वाधीष्वेत्ययमधीते- अध्यगीष्ट, अध्येष्यते वा । १२०८ । समुच्चयेऽन्यतरस्याम् । (३-४-३) अनेकक्रियासमुच्चये लोट्, लोटो हिस्वौ वा च तध्वमोरिति सर्वे वा स्यात् । पक्षे यथाप्राप्तं लकाराः । यथा— गजान् बधान, अश्वानुच्चाटय, रथानुत्पाटय, पदातींस्ताडयेति युध्यते वीरः । पक्षे—गजान् बध्नाति, अश्वानुच्चाटयति, रथानुत्पाटयति, पदातींस्ताडयति । बन्धनोच्चाटनोत्पाटनताडनानि विशेषभूतानि सामान्ये युद्धक्रियायां मान्यविशेषभावेन सम्बध्यन्ते । "पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्यास्थ्यमहर्दिवं दिवः ॥” अत्रानुप्रयोगे नियमं करोति- १२०९ । यथाविध्यनुप्रयोगः पूर्वस्मिन् । (३-४-४) पूर्वस्मिन् क्रियासमभिहारे लोड्विधौ लोट्प्रकृतिरेव धातुरनुप्रयो-क्तव्यः ॥

विश्व पाउनुभयो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५५&oldid=354885" इत्यस्माद् प्रतिप्राप्तम्