पृष्ठम्:Laghu paniniyam vol1.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । १०८६ । हस्ते वर्तिग्रहोः । (३-४-३९) हस्तवर्त वर्तयति — हस्तेनेत्यर्थः । एवं हस्तग्राहम् । - १०८७ । स्वे पुषः । (३-४ ४०) स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषम्, आत्म- पोष, पितृपोषं वा पुष्णाति । १०८८ । अधिकरणे बन्धः । (३-४ ४१) चक्रबन्धं बध्नाति । मुष्टिबन्धं बध्नाति । १०८९ | संज्ञायाम् । (३-४-४२) मयूरिकाबन्धं, अट्टालिकाबन्धं वा बध्नाति । आख्यातकानि] १०९० । कर्त्रार्जीवपुरुषयोर्नशिवहोः । (३ ४-४३) जीवनाशं नश्यति । —जीवो (जीवन्) नश्यति । पुरुषवाहं वहति – पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः । -- १०९१ । ऊर्ध्वे शुषिपूरो: । (३-४-४४) ऊर्ध्वशोषं शुष्यति वृक्षः । ऊर्ध्वपूरं पूर्यते घटः । १०९२ । उपमाने कर्मणि च । (३-४-४५) - 507 उपमानभूते कर्तरि कर्मणि वा उपपदे धातोर्णमुल् | यथा— घृतनिधायं निहितं जलं - घृतमिव निहितम् । अजकनाशं नष्टः - अजक इव नष्टः। १०९३ । कषादिषु यथाविध्यनुप्रयोगः । (३-४-४६) तथैवोदाहृतम् । इतः परमनुप्रयोगनियमो नास्ति । १०९४ | उपदंशस्तृतीयायाम् । (३-४-४७) मूलकोपदंशं भुङ्क्ते - मूलकेनोपदंश्येत्यर्थः । १०९५ । हिंसार्थानां च समानकर्मकाणाम् । (३-४-४८) दण्डोपघातं गाः कालयति – दण्डेनोपहत्य | १०९६ । सप्तम्यां चोपपीडरुधकर्षः । (३-४-४९) पार्श्वोपपीडं शेते—पार्श्वयोरुपपीड्य इत्यादि । १०९७ । समासत्तौ । (३-४-५०) सामीप्ये द्योत्ये तृतीयासप्तम्यन्तयोरुपपदयोर्धातोर्णमुल् । यथा— केशग्राहं युध्यन्ते । हस्तग्राहम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३६&oldid=347910" इत्यस्माद् प्रतिप्राप्तम्