पृष्ठम्:Laghu paniniyam vol1.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [आख्यातकानि १०७५ | यथातथयोरसूयाप्रतिवचने । (३-४-२८) कृञो णमुल् । यथाकारं मे रोचते तथाकारमहं करिष्ये किं तवानेन । अत्र सासूयं प्रतिवचनं द्योत्यते । ३१६ १०७६ । कर्मणि दृशिविदोः साकल्ये । (३-४-२९) कर्मण्युपपदे साकल्ये द्योत्ये दृशविदोर्णमुल् । यथा - 1 ब्राह्मणवेदं भोजयति — यं यं ब्राह्मणं वेत्ति तं तमित्यर्थः । कन्यादर्श वरयते – यां यां कन्यां पश्यति तां तामित्यर्थः । +- १०७७ । यावति विन्दजीवो: । (३-४-३०) यावद्वेदं भुङ्क्ते । यावज्जीवमर्धते । १०७८ । चर्मोदरयोः पूरेः । (३-४-३१) चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्त । १०७९ । वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् । (३-४-३२) गोष्पदपूरं, गोष्पदप्रं वा वृष्टो देवः । १०८० । चेले क्नोपेः । (३-४-३३) चेलक्नोपं, वसनक्नोपं वा वृष्टो देवः । चेल इत्यर्थग्रहणम् । १०८१ । निमूलसमूलयोः कषः । (३-४-३४) 'कषादिषु यथाविध्यनुप्रयोगः' इति वक्ष्यते । तेन इतःप्रभृति णमुल्विधिषु णमुल्प्रकृतिर्धातुरेवानुप्रयोक्तव्यः । तत्रानुप्रयोगस्यैवार्थयोजन ।। णमुल्प्रकृतिर्निरर्थक - निमूलकाषं, समूलकाष वा कषति – निमूलं, समूलं वा कषतीत्यर्थः । १०८२ | शुष्कचूर्णरूक्षेषु पिषः । (३-४-३५ ) शुष्कपेषं, चूर्णपेषं, रूक्षपेषं वा पिनष्टि-शुष्कं पिनष्टीत्यादिरर्थः । एव । यथा - - १०८३ । समूलाकृतजीवेषु हन्कृञ्ग्रहः । (३-४-३६) समूलघातं हन्ति । समूलं हन्तीत्यर्थः । एवम् अकृतकारं करोति । जीवप्राइं गृह्णाति । जीवतीति जीवः, जीवन्तमित्यर्थः । १०८४ । करणे हनः । (३-४-३७) करणे उपपदे हन्तेर्णमुल् । पादघातं हन्ति – पादेनेत्यर्थः । १०८५ । स्नेहने पिषः। (३-४-३८) स्नेहनवाचिनि करणे उपपदे णमुल् । तैलंपषं पिनष्टि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३५&oldid=347909" इत्यस्माद् प्रतिप्राप्तम्