पृष्ठम्:Laghu paniniyam vol1.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये १०९८ । प्रमाणे च । (३-४-५१) तृतीयासप्तम्योरित्येव । यथा- -झंगुलोत्कर्षं वस्त्रं छिनत्ति । १०९९ । अपादाने परीप्सायाम् । (३-४-५२) परीप्सा = त्वरा । तस्यां द्योत्यायामपादाने उपपदे धातोर्णमुल् । यथा- शय्योत्थायं धावति - शय्योत्थानक्षण एवेत्यर्थः । ११०० । द्वितीयायां च । (३-४-५३) परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । ११०१ । स्वाङ्गेऽध्रुवे । (३-४-५४) अध्रुवे स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोर्णमुल् । यथा- अक्षिनिकोचं जल्पति – भ्रूविक्षेपं कथयति । 'अध्रुव' इत्युक्तेः शिर उत्क्षिप्य इत्येव । येन विना न जीवनं तद्भुवम् । - ३१८ - [आख्यातकानि ऽप्यन्त्र व्याख्याताः ॥ - ११०२ । परिक्लिश्यमाने च । (३-४-५५) स्वाङ्गे द्वितीयायामित्येव । उरःप्रतिक्षेपं युध्यन्ते । ध्रुवार्थोऽयमारम्भः । ११०३ । विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः (३-४-५६) साकल्येन सम्बन्धो व्याप्तिः, पौन:पुन्यमासेवा । यथा- गेहानुप्रवशमास्ते । पीठानुपातमास्ते इत्यादि । ११०४ । अस्यतितृषोः क्रियान्तरे कालेषु । (३-४-५७) क्रियान्तरं क्रियाया व्यवधानम् । तस्मिन् द्योत्ये कालवाचिषु द्वितीयान्तेषूपपदेषु अस्यतितृषोर्णमुल् । यथा- द्व्यहात्यासं वत्सान् पाययति । यद्दतर्षम् । ११०५ । नाम्न्यादिशिग्रहो: । (३-४-५८) नामादेशमाचष्टे । नामग्राहमाह्वयति-नामादिश्य, गृहीत्वा च । ११०६ । अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। (३-४-५९) अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः, प्रियस्य नीचैश्च कथनम्। उच्चैःकृत्य, उच्चैःकृत्वा, उच्चैःकारमाचष्टे । प्रयोगवैचित्र्यप्रतिपादका इति णमुलो विशेषविधयः प्रायः सर्वे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३७&oldid=347931" इत्यस्माद् प्रतिप्राप्तम्