पृष्ठम्:Laghu paniniyam vol1.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्डः । ३०७ वकारान्तश्च अव् आव् इत्येतौ । आन्तरतम्यात् ओदौतावेव स्थानिनौ । यकारादौ प्रत्ययेऽपि ओकारस्य अव्, औकारस्य आव् च आदेश: स्यादित्यर्थः । अनेन भू + य – गुणे भो + य = अवादेशे भव्य । लू ÷ य लो + य = लव्य । १०२७ । धातोस्तन्निमित्तस्यैव । (६-१-८०) " यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव (यादिप्रत्ययनिमित्तकस्य एच एव) इति नियमात् आङपसृष्टात् वेनः कर्माणि यकि यनिमित्ते संप्रसारणे आद्गुणेन निष्पन्नस्य ओकारस्य अवादेशो न भवति, ‘ओयते' इत्येव रूपम् । अतश्च धातोरिगन्तत्वेन गुणवृद्धिभ्यां निष्पन्नस्यैव अवावौ । पूर्वसूत्रं तु गव्यं नाव्यमिति तद्धितार्थम् । १०२८ । क्षय्यजय्यौ शक्यार्थे । (६-१-८१) १०२९ । क्रय्यस्तदर्थे । (६-१-८२) (तदर्थे = कथार्थे) इति यत्प्रत्यये क्षि-जि-क्रीधातूनाम् अयादेशो निपात्यते । यथा— क्षेतुं शक्यं = क्षय्यम् । जेतुं शक्यं = जय्यम् । क्रयार्थमापणे प्रसारितं क्रय्यम् । क्षेतुं योग्यम् इत्यादौ तु क्षेयं, जेयं, क्रेयम् इत्येव । कृत्यानामर्थविशेषा वक्ष्यन्ते ॥ ‘अचो चत्' इत्येवोक्तम् । हलन्तेष्वपि केभ्यश्चिदाह — १०३० । पोरदुपधात् । (३-१-९८) पवर्गान्तादकारोपधादपि यत् । यथा - शपू—शप्यं, लभू – लभ्यं, रम् – रम्यम् । १०३१ । शकिसहोश्च । (३-१-९९) शक्यं, सह्यम् । १०३२ । वदः सुपि क्यप् च । (३-१-१०६) सुबन्त उपपदे वदधातोः क्यप् स्यात्, चाद्यच्च । क्यपः प्रक्रियाविशेषार्थम् । स चायम्- पिवम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२६&oldid=347899" इत्यस्माद् प्रतिप्राप्तम्