पृष्ठम्:Laghu paniniyam vol1.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ लघुपाणिनीये १०१९ । क्षायो मः । (८-२-५३) क्षामः । १०२० । वित्तो भोगप्रत्यययोः । (८-२-५८) अन्यत्र विन्नम् । १०२१ । भित्तं शकलम् । (८-२-५९) अन्यत्र भिन्नम् । १०२२ । ऋणमाधमये । (८-२-६०) अन्यत्र ऋतम् । en er weer salvare se poate • अथ लिङस्थानीयाः कृत्यसंज्ञाः - টবर्तভট – নম तथा चाधिकारसूत्रम् - ব র १०२३ । कृत्याः । (३-१-९५) इति । १०२४ । तव्यत्तव्यानीयरः । (३-१-९६) धातोरेते प्रत्ययाः स्युः, ते च कृत्यसंज्ञा: । ‘तयोरेव कृत्यक्त- खलर्थाः' (९८५) इति भावकर्मणोरेवैते। ‘तव्यत्' इति तकारानुबन्ध- ८ कस्य पृथग्ग्रहणं स्वरार्थम् । यथा- - [आख्यातकानि करणीयः, - था, - यम् । दानीयः, या, यम् । त्वया विनीतेन भाव्यं, त्वयेदं कर्तव्यमित्यादि भावकर्मणोः । भू – भवितव्यम्' । भवनीयम् । कृ – कर्तव्यः, - व्या,-व्यम् । दा— दातव्यः, व्या, व्यम् । १०२५ । अचो यत् । (३-१-९७) अजन्ताद्धातोर्यत्प्रत्यय: स्यात् कृत्यसंज्ञः । 'वाऽसरूप. (९८२) इति परिभाषया तव्यानीयरौ विकल्पेनैवायं बाधते । यथा- दा––दा + य इति स्थिते 'ईद्यति' (८६४) इत्याकारस्य ईत्वं, देयः, -या,- इति रूपम् । दातव्यः, दानीयः इत्यपि । ग्ला — [ – ग्लेयः । जि – जेयः । नी – नेयः इत्यादि । ‘एचोऽयवायावः' इति संधिविधौ १०२६ । वान्तो यि प्रत्यये । (६-१-७९) यकारादौ प्रत्यये परेऽपि एचो वकारन्त १. भावे कृत्यस्य विशेष्यत्वात्सामान्ये नपुंसकम् । आदेश: स्यात् रन्त आदेशः स्यात

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२५&oldid=347898" इत्यस्माद् प्रतिप्राप्तम्