पृष्ठम्:Laghu paniniyam vol1.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ लघुपाणिनीये १०३३ । ह्रस्वस्य पिति कृति तुक् । (६-१-७१) ह्रस्वस्य तुगागमः पिति कृत्प्रत्यये परे । यथावसरमिदमुदाहरिष्यामः [आख्यातकानि प्रकृते ब्रह्म + वद् + य इति क्यपि कृते ‘उपपदमतिङ्' इि वक्ष्यमाणेन सूत्रेण उपपदस्य सुबन्तस्य कृदन्तेन सह समास: । क्य कित्त्वात् वदतेः प्रसारणं, ब्रह्मोद्यम् इति रूपनिष्पत्तिः । पक्षे यत्प्रत्य ब्रह्मवद्यम् इत्यपि । एवं सत्यस्य वदनं सत्योद्यं, सत्यवद्यं वा । अ क्यप् भावार्थकः सिद्धक्रियावाची च । 'कृत्यल्युटो बहुलम्' (११६४ इति कृत्याना मर्थेष्वव्यवस्था विहिता च ॥ १०३४ । भुवो भावे । (३-१-१०७) सुप्युपपदे भूधातोः सिद्धभावार्थे क्यप् । यथा - ब्रह्मभूयं – ब्रह्मात्मना भवनं, ब्रह्मणो भावः ब्रह्मत्वमित्यर्थः । इदं नित्यक्लीबं विशेष्यनिन्नत्वाभावेन नियतलिङ्गत्वात् || १०३५ । हनस्त च । (३-१-१०८) - हन्तेः सुप्युपपदे भावे क्यप्, तकारोऽन्तादेशश्च । यथा— ब्रह्मणो हननं ब्रह्महत्या | अयं नित्यस्त्रीलिङ्गः । सूत्रत्रयोक्तः क्यप् अनुपसर्गादेव धात र्भवति, अनुपसर्गे इति सर्वत्रानुवृत्तेः ॥ १०३६ । एतिस्तुशास्तृदृजुष: क्यप् । (३-१-१०९) सुप्यनुपसर्ग इति च निवर्तयितुं पुन: क्यबूग्रहणम् । कित्त्व गुणाभावे 'हस्वस्य पिति कृति तुक् , इ–इत्यः । स्तु–स्तुत्यः । शास् – शिष्यः । ('शास् इदड्हलो:' ५८३ ) वृ – वृत्यः । दृ – दृत्यः । जुष्- जुष्यः । - अत्र 'अचो यतो' वाधनार्थम् एतिस्तुवृहग्रहणम् । ‘ऋहलोर्ण्यतो ' धनार्थम् अन्येषाम् । यत्-क्यप् ण्यतां प्रवर्तत एव || सरूपत - - ण्यतां सरूपत्वादुत्सर्गापवादन्या- पत्चादुरवर्गापवाद

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२७&oldid=347900" इत्यस्माद् प्रतिप्राप्तम्