पृष्ठम्:Laghu paniniyam vol1.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्ड: । आख्यातकानि ॥ वर्तमाने लट् (३-२-१२३) इति लड्डिधानानन्तरमेव तस्यादेश- मपि विदधात्याचार्य:- - 6 २९९ ९९२ | लटः शतृशानचावप्रथमासमानाधिकरणे । (३-२-१२४) ‘अप्रथमासमानाधिकरणे' इत्यस्य विशेष्यं 'लडाच्यकारके' इत्यध्याहियते । लट: शतृ इति शानच् इति चादेशौ स्तः । लड्ढाच्ये कारके (कर्तरि कर्मणि वा) अप्रथमान्तेन (युष्मदा अस्मदा शेषेण वा) समानाधिकरणे सति । स्ववाच्यकारकस्य प्रथमान्तसामानाधिकरण्ये लट: तिङो विहिताः । तदन्यसामानाधिकरण्ये शतृशानचौ विधीयते । युष्मद्युपपदे ' इत्यादित्रिसूत्र्या उपपदभूतेनैव प्रथमान्तेन सामा- नाधिकरण्ये तिङां प्रवृत्तिः । तादृगेव सामानाधिकरण्यमत्रापि निषि- ध्यते । अतोऽनुपपदभूतेन प्रथमान्तेनापि सामानाधिकरण्ये शतृशानचौ प्रवर्तेते एव । अथोपपदत्वं प्रथमान्तस्य कदा स्यादिति विचारयामः । समीपे साकाङ्क्षमवश्यं प्रयोक्तव्यं पदं ह्युपपदमित्युच्यते । लकारेण सा- मान्यत एव कर्ता कर्म वा कारकमभिधीयते । तद्विशेषप्रतिपत्तये पुनः समानाधिकरणं प्रथमान्तमपेक्षितम् । यथा 'देवदत्तः पचति' इत्यत्र लङ्काच्यस्य कर्तुः ‘देवदत्तः' इति प्रथमान्तस्य च सामान्यविशेषभावे- नाभेदान्वयः । अतश्च 'देवदत्त' इति प्रथमान्तेन सामानाधिकरण्ये पचतीति लटस्ति । ‘पचन् देवदत्त: स्थालीमभात्' इत्यादौ तु 'देवदत्त' इति प्रथमान्तस्य 'अभागीत्' इति लुङ्वाच्यकर्ता सहैव सामान्यविशेषभावेन सामानाधिकरण्यम्, न तु 'पचन्' इत्यनेन । तस्य 'देवदत्त' इत्यनेन सह 'नीलमुल्पलम्' इत्यादिवत् विशेषणविशे- ष्यभावेनैव सामानाधिकरण्यम् । यस्य सामान्यविशेषभावेन लकारवा- च्यकारकेण सह सामानाधिकरण्यं तदेव प्रथमान्तमुपपदं भवति । शेषभावन कार

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१८&oldid=347791" इत्यस्माद् प्रतिप्राप्तम्