पृष्ठम्:Laghu paniniyam vol1.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [आख्यातकानि तत्रैव च लटस्तिङादेश: । अन्यत्र विशेषणविशेष्यभावेन प्रथमान्त- सामानाधिकरण्येऽपि शतृशानजादेशावेव । अस्मिंश्च व्याख्याने— ९९३ । संबोधने च । (३-२-१२५) इति सम्बोधनविषयेऽपि शतृशानज्विधायकमुत्तरसूत्रम् 'ब्रूहि विद्वन्' इत्यादिवत् समानाधिकरणं पदं विनापि शतृशानजन्तानां क्वचित् प्रयोग- सिद्ध्यर्थम् । 'सम्बोधने' इत्यखोपलक्षणार्थकत्वात् 'विद्वानेव विजा- नाति' इत्यादिवत् अन्यत्रापि प्रयोगः । 'विदे: शतुर्वसुः' इति वक्ष्य- माणोऽत्र शतृप्रत्ययस्त्र वस्वादेशः || शतृशानचो: शकार इत् सार्वधातुकत्वार्थः । ऋकार उगित्वेन ‘उगिदचाम्' इति सर्वनामस्थाने नुमः, 'उगितश्च' इति स्त्रियां ङीपश्च सिद्ध्यर्थः । इतां लोपे ‘अत्' 'आन न' इति प्रत्ययस्वरूपम् । ‘तङानावात्मनेपदम्' इत्युक्तेः 'शानच्’ आत्मनेपदं, शेषत्वात् शता परस्मेपदं च । प्रथमासामानाधिकरण्याभावात् पुरुषविभागस्य नाव- काशः । शतृशानचो: स्थानिवद्भावेन लट्त्वादनलाश्रयाणि सर्वाणि लट्- कार्याणि भवन्ति ॥ ८ भू – परस्मैपदित्वात् शतृप्रत्यय:, कर्तरि शप्, 'अतो गुणे' इति पररूपं, गुणावादेशौ--'भवत्' इति शत्रन्तरूपसिद्धिः । अस्य पुंस्त्वविवक्षायाम् 'उगिदचाम्....' इति सर्वनामस्थाने नुम् । भवन् भवन्तौ भवन्तः । भवन्तं भवन्तौ भवतः इत्यादि विशेष्यानुरोधेन विभक्तय: । स्त्रियाम् 'उगितश्च' इति ङीप्, आच्छीनद्योर्नुम् 'शाश्य- नोर्नित्यम्' इति नित्यं भवति । भवन्ती भवन्त्यौ भवन्त्यः इत्यादि । लीबे भवत् भवती भवन्ति इत्यादि । एवं पचन्नित्यादि- । पचन्नास्त देवदत्तः । पचन्तं पश्य देवदत्तम् । पचता भग्ना स्थाली देवदत्तेन । पचतं देहि भृतिं देवदत्ताय । पचतो लब्धमन्नं देवदत्तात् । पचतः शृणु गानं देवदत्तस्य । पचति रज्यते कन्या देवदत्ते । पचन्नोदनं देहि देवदत्त GDF इत्यादिवदूह्यमप्रथमासामानाधिकरण्यम् ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१९&oldid=347792" इत्यस्माद् प्रतिप्राप्तम्