पृष्ठम्:Laghu paniniyam vol1.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ एवमन्येऽप्युदाहार्याः । लघुपाणिनीये ९८८ । दाशगोघ्नौ संप्रदाने । (३-४-७३) एतौ संप्रदानकारकेऽर्थे स्याताम् । यथा- दाशन्स्यस्मै इति दाशः। गौर्हन्यते अस्मै इति गोघ्नोऽतिथिरुच्यते । ९८९ । भीमादयोऽपादाने । (३-४-७४) - भीमादयोऽपादाने कारके स्युः । यथा - बिभ्यत्यस्मादिति भीमः, भयानकः, भीष्मः । भवन्त्यस्या इति भूमिः । संक्रन्दन्त्यस्माच्छत्रव इति सक्रन्दनः इत्यादि | ९९० । ताभ्यामन्यत्रोणादयः । (३-४-७५) ताभ्यां संप्रदानापादानाभ्यामन्यत्र कारके उणादयः प्रत्ययाः स्युः । नामानि सर्वाण्यपि धातोरुत्पन्नानीति वदतां शाकटायनादीनां मते ‘उण्’-प्रभृतिभिः प्रत्ययैर्नामानि निरुच्यन्ते । ते प्रत्ययाः संप्रदानापादान- भिन्नेषु कर्तृकर्मकरणाधिकरणेषु कारकेष्वेव भवेयुः । संप्रदानापादानयो- दूरान्तरितः सम्बन्ध इति तयोर्विरला एव प्रत्यया इत्यभिप्रायः ॥ ९९१ । क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । (३-४-७६) ध्रौव्यार्थाः = अकर्मकाः । प्रत्यवसानार्थाः भुक्त्यर्थाः । अकर्मके- भ्यो गत्यर्थेभ्यो भुक्त्यर्थेभ्यश्च क्तप्रत्ययोऽधिकरणेऽपि स्यात् । पक्षे यथा- प्राप्तमकर्मकेभ्यः कर्तृभावयोः, गत्यर्थेभ्यः कर्तृकर्मभावेषु, भुक्त्यर्थेभ्यो भावकर्मणोश्च । यथा - – “मुकुन्दस्यासितमिदं – यत्रास्ते मुकुन्दस्तत् स्थलम् । - इदं यातं रमापतेः – यत्न गच्छति - भुक्तमेतदनन्तस्य – यत्र भुङ्क्ते इत्यूचुर्गोप्यो दिदृक्षवः” । "" 22 [कृतामर्थव्यवस्था " "

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१७&oldid=347790" इत्यस्माद् प्रतिप्राप्तम्