पृष्ठम्:Laghu paniniyam vol1.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतामर्थव्यवस्था] परिनिष्ठाकाण्डः । ९८४ । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । (३-४-६८) भव्यादयः शब्दाः कृत्यप्रत्ययान्तत्वात् ‘तयोरेव कृत्यक्तखलर्था: ' इति वक्ष्यमाणेन सूत्रेण भावकर्मणोरेव प्राप्ताः । ते कर्तर्यर्थेऽपि विकल्पेन स्युरित्यनेन विधीयते । भवनकर्ता भव्यः । गानकर्ता गेय इत्यादि । लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६९) व्याख्यातम् (४१४) ९८५ । तयोरेव कृत्यक्तखलर्थाः। (३-४-७०) तयोर्भावकर्मणोरेव कृत्यप्रत्ययाः, क्तप्रत्ययः, खलर्थप्रत्ययाश्च । लिङस्थानीयाः कृत्यप्रत्ययाः, लुङस्थानीयः क्तप्रत्ययः, लोट्स्थानीयाः खलर्थाः । एषां कर्तरिप्रयोगो न । तथा च दर्शितमाख्याताख्यातकयोर्भेद- कथने 'आरोढव्योऽश्व' इत्यादि । ९८६ । आदिकर्मणि क्तः कर्तरि च । (३-४-७१) आदिकर्मणि विहितः क्तप्रत्ययः कर्तर्यपि स्यात् । विधिस्थल एवोदाहरिष्यामः ।। ९८७ । गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च । (३-४-७२) गत्यर्थेभ्योऽकर्मकेभ्यः श्लिषादिभ्यश्च क्तप्रत्ययः कर्तर्यपि स्यात् । यथा- ग्लानं कुसुमम्...... .. कर्तरि ग्लानं कुसुमेन.. . भावे । युरिति तेषां पृथग्ग्रहणम् । गतो रामं देवदत्तः – कर्तरि । - गतो ग्रामो देवदत्तेन – कर्मणि । स्थासवसादयोऽकर्मका अपि उपसर्गयोगेन सकर्मका अपि भवे- उपस्थितो गुरुं शिष्यः— कर्तरि | | उपस्थितो गुरुः २९७ शिष्येण– कर्मणि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१६&oldid=347789" इत्यस्माद् प्रतिप्राप्तम्