पृष्ठम्:Laghu paniniyam vol1.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ लघुपाणिनीये [कर्मकर्तृप्रक्रिया अथ पूर्वमेव प्रत्ययान्तरसाहचर्येणोक्ताः कतिचिद्यकः प्रक्रिया: सुखार्थमनुसन्धीयन्ते- ‘रिङ्शयग्लिङ्क्षु' ‘ॠत इद्धातोः' 'उदोष्ठ्यपूर्वस्य' ‘अकृत्सार्वधातुकयोदर्घिः' 'घुमास्था......... ‘गुणोऽर्तिसं...... (५२९) कृ – क्रियते । कृ— कीर्यते। पृ – पूर्यते । जि - जीयते । दा— दीयते । - स्था — स्थीयते ऋ – अर्यते । (५२६) (५२८) (८२८) (८३१) (८६९) । भृ— म्रियते । तृ – तीर्यते । स्तु – स्तूयते । मा–मीयते । स्मृ – स्मर्यते । कर्मकर्तृप्रक्रिया ॥ इह किल कर्तरि, कर्मणि, भावे चेति लकाराणां त्रिविधः प्रयोगः । यत्र कर्तृकारकावलम्बिनी क्रिया प्रतिभासते तत्र कर्तरि प्रयोगः । यत्र कर्मकारकावलम्बिनी तत्र कर्मणि प्रयोगः । यत्र पुनः कारकसंसर्ग विनैवावभासते तत्र भावे प्रयोग इति । एषु कर्तरिप्रयोगो द्विविधः संभवति, कर्तुर्विवक्षाधीनत्वात् । तथा हि — स्वतन्त्रं कारकं किल कर्ता । स्वातन्त्र्यं च विवक्षाधीनम् । यथा – देवदत्तस्तूलिकया लिखतीति वाक्ये लेखनक्रियायां स्वातन्त्र्याद्देवदत्तः कर्ता । तूलिका च तस्य लेखनसाधनमिति करणम् । अथ पुनर्लाघवातिशयद्योतनाय तूलि कैव स्वयं लेखनक्रियां निर्वहतीति विवक्ष्यते चेत्तर्हि तूलिका कर्ता भवति । वस्तुतोऽल देवदत्त एव यद्यपि जडां तूलिकामुचितरेखोत्पादना- नुकूलं चालयति तथापि तूलिका देवदत्तोपदिष्टवर्त्मना यदि नाचलिष्य- स्वव्यापारे तर्हि देवदत्तो लिखितुं नाशक्ष्यदिति तूलिकाया अपि खव्या स्वातन्त्र्यमस्त्येव । इदं स्वातन्त्र्यमवलम्ब्य तूलिका लिखतीति करणं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९७&oldid=347669" इत्यस्माद् प्रतिप्राप्तम्