पृष्ठम्:Laghu paniniyam vol1.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मकर्तृप्रक्रिया] परिनिष्ठाकाण्डः । २७९ कर्ता संपद्यते । एवं स्थाली पचतीत्यधिकरणस्य कर्तृत्वं संभवति इत्यादि । तथा च कारकान्तराणामपि स्वस्वव्यापारे स्वातन्त्र्यात् कर्तृत्वं विवक्षितुं शक्यते । लक्षणावृत्त्यस्पृष्टे तत्त्वाख्यानवाक्ये यानि करणादीनि कार- काणि तानि लाक्षणिके चमत्कृतवाक्ये कर्तारो भवन्ति । करणस्य कर्तृत्वविवक्षायां करणकर्तरि प्रयोगः । अधिकरणस्य कर्तृत्वविवक्षायाम् अधिकरणकर्तरि प्रयोगः । कर्मणः कर्तृत्वविवक्षायां कर्मकर्तरि प्रयोगः । इत्यादयस्तेषां व्यपदेशाः । एषु करणकर्तरि प्रयोगादयः कर्तरि- प्रयोगसमाना एव । कर्मकर्तरिप्रयोगे परं रूपभेद आपततीति तत्प्रक्रिया वक्तव्या जाता ॥ ८९७ । कर्मवत् कर्मणा तुल्यक्रियः । (३-१-८७) कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात् । कर्मकर्ता व्याख्यातरूपः कर्मणां तुल्य: स्यादित्यर्थः । कर्मकर्तरिप्रयोगे कर्मणि- प्रयोग इव कार्याणि भवन्तीति कार्यातिदेशोऽयम् । तेन यक्चिण्- चिण्वदिडात्मनेपदानि भवन्ति । यथा - कर्तरि । देवदत्तस्तण्डुलं पचति । काचिच्छक्तिर्घटं भिनत्ति । वयं शब्दं शृणुमः । योद्धा लक्ष्यं विध्यते । कर्मकर्तरि । पच्यते तण्डुलः– अपाचि । भिद्यते घटः – अभेदि । श्रूयते शब्दः –अश्रावि । बिध्यते लक्ष्यम् – अवधि । 'कर्मणा तुल्यक्रियः' इत्युक्तेः कर्मस्थक्रियाणामेव धातूनामयं विधिः, न तु कर्तृस्थक्रियाणाम् । यस्मिन् कर्मकारके क्रियाकृतो विकारो दृश्यते स एव कर्तृत्वं प्राप्तः कर्मवत् स्यात् । पचनक्रियायां तण्डुलस्य, भेदनक्रियायां घटस्य च विकारो जायते न तु कर्तुः अनेन ज्ञान- । गमनादीनां कर्तृनिष्ठफलानां क्रियाणां कर्मकर्तरिप्रयोगे न कर्मवद्भावः । कर्तरिप्रयोगतुल्यमेव तत्र रूपम् । यथा -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९८&oldid=347670" इत्यस्माद् प्रतिप्राप्तम्