पृष्ठम्:Laghu paniniyam vol1.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकर्मप्रक्रिया] परिनिष्ठाकाण्डः । ८९५ । स्य-सिच-सीयुद्-तासिषु भावकर्मणोरुपदेशेऽज्झन- ग्रहदृशां वा चिण्वदिद् च । (६-४-६२) चिण्वत् = चिणि इव कार्यम् । भावकर्मणोः प्रयोगे उपदेशे अजन्तानां इनग्रहदृशां च स्यसिच्सीयुट्तासिषु संस्करणेषु परेषु चिणीव कार्य वा स्यात् । चिण्वद्भावसंनियोगेन स्यसिजादीनामिट् च । चिण्कार्याणि च- , "चिण्वद्वृद्धिर्युक् च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति " इति परिगणितानि । एषु वृद्धिर्णित्त्वप्रयुक्ता । 'आतो युक् चिण्कृतो: इत्यत्रैवोक्तो युक् । घत्वमपि 'हो हन्ते....' इति णित्त्वप्रयुक्तम् । दीर्घः परं वक्तव्योऽस्ति । स यथा- - ८९६ । चिण्णमुलोर्वोऽन्यतरस्यां (जौ) । (६-४-९३) ‘मितां ह्रस्वः' इत्यतोऽनन्तरस्तदपवादश्चायं दीर्घः । चिणूपरे णमुल्परे च णौ मितामुपधाया वा दीर्घः । यथा- - दमयतेलुंङि चिणि ‘णेरनिटि' इति णिलोपे अदम् + इ इति जाते अनेन वा दीर्घः । अदामि-अदमि । एवं शमयतेर्लुङि अशामि-अशमि । केवलाभ्यां तु उपधावृद्धिनिषेधात् अदमि-अशमि इत्येव । क्रमादुदाहरणानि – २७७ 6 अजन्तेषु कृ– कारिष्यते, करिष्यते । चिण्वदभावे ‘ऋद्धनोः स्ये' इति इट् | जि – जायिष्यते, जेष्यते , .... दा – दायिष्यते, दास्यत ... - हन – घानिष्यते, हनिष्यते ... ग्रह – प्राहिष्यते, ग्रहीष्यते .. दृश – दर्शिष्यते, द्रक्ष्यते । शमिर्णिजन्तोऽमन्तः — शामिष्यते, शमिष्यते । शमयिष्यते । दीर्घविकल्पः । एवं सिजादिष्वपि, अकारिषाताम् अकारिषत । अकृषताम् अकृषत कारिषष्ट, कृषीष्ट इत्यादि । आर्धधातुके इत्यधिकारादाशीर्लिङ: सीयुडेव गृह्यते । 5 कारिता कर्ता । ... युक् । हन्तेर्घत्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९६&oldid=347668" इत्यस्माद् प्रतिप्राप्तम्