पृष्ठम्:Laghu paniniyam vol1.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ लघुपाणिनीये ४०७ । हलश्चेजुपधात् । (८-४-३१) हलादिर्यो धातुरिजुपधः तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्य नस्य उपसर्गस्थं निमित्तमादाय वा णत्वम् । यथा – प्रकोपनम्, प्रकोपणम् । ४०८ । इजादेः सनुमः । (८-४-३२) इजादे: सनुमो हलन्तात् धातोर्विहितो यः कृत्प्रत्ययः तत्स्थस्य नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा— प्रेङ्खणम् । सनुमश्चेत् इजादेरेवेति नियमार्थमिदम् । [नामरूपावलिः ४०९ । न भाभूपूकमिगमिप्यायीवेपाम् । (८-४-६४) एषामुपसर्गस्थं निमित्तमादाय कृन्नकारस्य न णत्वम् । यथा— प्रभानं, परिभवनम् इत्यादि । ४१० । षात् पदान्तात् । (८-४-३५) पदान्तात् षकारात् परस्य न णत्वम् । यथा - निष्पादनं, दुष्पादनम् इत्यादि । प्रत्यु० – ('षात्' किम् ?) निर्णय: । ('पदान्तात् किम् ?) पुष्णाति । ४११ । पदान्तस्य । (८-४-३७) पदान्तस्य नकारस्य न णत्वम् | यथा— रामान्, वृक्षान्, पितॄन्, कुर्वन् । ४१२ । पदव्यवायेऽपि । (८-४-३८) - पदव्यवधानेऽपि न णत्वम् । 'प्रातिपदिकान्त' (३९५) इत्या- दिना प्राप्तिः । यथा - माषकुम्भवापन, चतुरङ्गयोगेन, पर्यवनद्धम् । ४१३ | क्षुम्नादिषु च । (८-४-३९) न णत्वम् । यथा— क्षुम्नाति, तृप्नांति इत्यादि । नामरूपावलिः ॥ अव सुपां प्रक्रियाकथने प्रत्ययानां प्रकृतीनां च विकाराः पृथङ् निरूपिताः । रूपाणि तु उभयेषां युगपत् प्रवर्तनेनैव सिद्ध्यन्ति ; अतः सुखार्थ तत्तत्प्रक्रियानुसंधानपुरस्सरं सामान्यशब्दानां ख्यते । विशेषशब्दानां तु रूपाणि तत्र तत्रैव प्रायशो दर्शितानि ।। रूपावलिर्विलि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५७&oldid=347524" इत्यस्माद् प्रतिप्राप्तम्