पृष्ठम्:Laghu paniniyam vol1.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ४०० । आनि लोट् । (८४-१६) आनि इति लोडुत्तमस्य नकारस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा- प्रभवाणि, प्रवपाणि, परियाणि । ४०१ । नेर्गद-नद-पत-पद-धु-मा-स्यति-हन्ति-याति-वाति-द्राति- प्साति-वपति- वहति-शाम्यति-चिनोति देग्धिषु च । (८-४-१७) नि इत्युपसर्गस्य नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । गद- नदादिषु परेषु यथा— प्राणिगदति, प्रणिनदति, परिणिनति इत्यादि । ४०२ । शेषे विभाषाऽकखादावषान्त उपदेशे । (८-४-१८) अककारखकारादिः अषकारान्तश्च यो धातुरुपदेशे तस्मिन् शेषे परे उपसर्गस्थं निमित्तमादाय नेर्णत्वं वा । यथा- - णत्वम् ] प्रणिपचति, प्रनिपचति ; प्राणिभिनत्ति, प्रनिभिनत्ति । प्रत्यु० – ('अकखादौ ' किम् ?) प्रनिकरोति -- प्रनिखादति । ('अषान्ते' किम् ?) प्रनिपिनष्टि । १३७ ४०३ । अनितेः । (८-४-१९) उपसर्गस्थं निमित्तमादाय अनधातोर्नस्य णत्वम् । यथा - प्राणिति–प्राणः ॥ ४०४ । हन्तेरत् पूर्वस्य । (८-४-२२) अकारपूर्वस्य हन्तेर्नकारस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा - प्रहणनं, परिहणनम् । प्रत्यु० – ('अत्पूर्वस्य' किम् ?) प्रघ्नन्ति, परिघ्नन्ति । ४०५ । कृत्यचः । (८-४-२९) कृत्प्रत्ययस्थो यो नकारोऽच उत्तरः तस्य उपसर्गस्थं निमित्तमा- दाय णत्वम् । अन, मान, अनीय, अनि, निष्ठा एते कृत्प्रत्यया अत्रो- दाहरणम् | यथा— प्रयाणं, प्रयाणीयम् इत्यादि । प्रत्यु० – ('अचः' किम् ?) प्रभुग्नः । ४०६ । फेर्विभाषा । (८-४-३०) ण्यन्तात् यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्य उपसर्गस्थ निमित्तमादाय वा णत्वम् । यथा - प्रयापणं, प्रयापनम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५६&oldid=347523" इत्यस्माद् प्रतिप्राप्तम्