पृष्ठम्:Laghu paniniyam vol1.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ लघुपाणिनीये [णत्वम् ३९५ । प्रातिपदिकान्तनुम्विभक्तिषु च (वा पूर्वपदात्) । (८-४-११) प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्था- न्निमित्तात् परस्य वा णत्वम् – असमानपदे णत्वमिदमिति स्वरूपेण सिध्यति । यथा— प्रातिपदिकान्ते–माषवापिणौ – माषवापिनौ । - नुमि – माषवापाणि – माषवापानि । विभक्तौ–माषवापेण – माषवापेन । ३९६ । एकाजुत्तरपदे णः । (८-४-१२) एकाच् उत्तरपदं यस्य स एकाजुत्तरपदः तस्मिन् समासे प्राति- पदिकान्तनुम्विभक्तिनकारस्य पूर्वपदस्थं निमित्तमादाय नित्यं णत्वम् । विकल्पनिवृत्त्यर्थं ण इति पुनर्ग्रहणम् | यथा— प्रातिपदिकान्ते–वृत्रहणौ, वृत्रहणः । नुमि विभक्तौ 1 -- क्षीरपाणि । -क्षीरपेण । ३९७ । कुमति च । (८४-१३) कवर्गवत्युत्तरपदेऽपि नस्य पूर्ववण्णत्वम् । यथा - प्रातिपदिकान्ते–वस्त्रयुगिणौ, स्वर्गकामिणौ । नुमि विभक्तौ -वस्त्रयुगाणि, स्वर्गकामाणि । -वस्त्रयुगण, स्वर्गकामेण । [ ३९८ । उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४) णोपदेशस्य धातो: नकारस्य उपसर्गस्थं निमित्तमादाय णत्वं समासे असमासेऽपि । यथा- स्यात् प्रणामः – प्रणमति ; परिणामः- परिणमति । प्रत्यु० – ('णोपदेशस्य' किम् ?) – प्रनर्दति । ३९९ । हिनुमीना । (८-४-१५) अनयोर्नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा- प्रहिणोति -प्रमीणाति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५५&oldid=347522" इत्यस्माद् प्रतिप्राप्तम्