पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रैराशिकव्यवहारः गतिनिवृत्तौ सूत्रम्--- निजनिजकालोद्धृत योर्गमन निवृत्त्योर्विशेषणाज्जाताम् । दिनशुद्धगतिं न्यस्य त्रैराशिकविधिमतः कुर्यात् ॥ २३ ॥ अत्रोद्देशकः । क्रोशस्य पञ्चभागं नौर्याति दिन त्रिसप्तभागन । 'वार्धी वाताविद्धा प्रत्येति क्रोशनवमांशम् || २४ ।। कालेन केन गच्छेत त्रिपञ्चभागोनयोजनशतं सा । सङ्ख्याब्धिसमुत्तरणे बाहुबलिंस्त्वं समाचक्ष्व ॥ २५ ॥ सपादहेम त्रिदिनैस्सपञ्चमैर्नरोऽर्जयन् व्येति सुवर्णतुर्यकम् । निजाष्टमं पञ्चदिनैदलोनितैः स केन कालेन लभेत सप्ततिम् ॥ २६ ॥ गन्धेभो मदलुब्धषट्पदपदप्रोद्भिन्नगण्डस्थलः सार्ध योजनपञ्चमं व्रजति यष्षभिर्दलोनैर्दिनैः । प्रत्यायाति दिनैस्त्रिभिश्च सदलै: क्रोश द्विपञ्चांशकं ब्रूहि क्रोशदलोन योजनशतं कालेन केनामुयात् || २७ || 61 वापी पयःप्रपूर्णा दशदण्डसमुच्छ्रिताब्जमिह जातम् । अङ्गलयुगलं सदलं प्रवर्धते सार्धदिवसेन || २८ || निस्सरति यन्त्रतोऽम्भः सार्धेनाहाजले सर्विशे दें। शुप्यति दिनेन सलिलं सपञ्चमाङ्गुलकमिनकिरणैः॥ २९ ॥ कूर्मो नालमधस्तात् सपादपञ्चाङ्गलानि चाकृषति । सास्त्रिदिनैः पद्म तोयसमं केन कालेन ॥ ३० ॥ 1 Band K read तस्मिन्काले वाध