पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 गणितसारसङ्ग्रहः सङ्क्रान्तौ ददता नराधिपतिना षड्भ्यो द्विजेभ्यस्सखे षट्त्रिंशत्रिशतेभ्य आशु वर कि तदत्तमुद्द्रादिकम् ॥ १७ ॥ इति त्रैराशिकः ।। व्यस्तत्रैराशिके तुरीयपादस्योद्देशकः । कल्याणकनकनैवतेः कियन्ति नववर्णकानि कनकानि । साष्टांशकदशवर्णकसगुञ्जम्नां शतस्यापि || १८ || व्यासेन दैध्येण च षट्करणां चीनाम्बराणां त्रिशतानि तानि । त्रिपञ्चहस्तानि कियन्ति सन्ति व्यस्तानुपातक्रमविद्वद त्वम् ॥ १९ ॥ इति व्यस्तत्रैराशिकः ॥ व्यस्तपञ्चराशिक उद्देशकः । पञ्चनवहस्तविस्तृतदैर्ध्यायां चीनवस्त्रसप्तत्याम् । द्वित्रिकर व्यासायति तच्छ्रुतवस्त्राणि कति कथय ॥ २० ॥ व्यस्तसप्तराशिक उद्देशकः । व्यासांयामोदयनो बहुमाणिक्ये चतुर्नवाष्टकरे । द्विषडेकहस्तमितयः प्रतिमाः कति कथय तीर्थकृताम् ॥ २१ ॥ व्यस्तनवराशिक उद्देशकः । विस्तारदैर्थ्योदयतः करस्य षट्त्रिंशदष्टप्रमिता नवाघ । शिला तथा तु द्विषडेकमानास्ताः पञ्चकार्घाः कति चैत्ययोग्याः ॥ २२ ॥ इति व्यस्त पञ्चसप्तनवराशिकाः ||