पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रैराशिकव्यवहारः सार्थैस्त्रिभिः पुराणैः कुङ्कुमपलमष्टभागसंयुक्तम् । संप्राप्यं यत्र स्यात् पुराणशतकेन कि तत्र ॥ ९ ॥ सार्धार्द्रकसप्तपलैश्चतुर्दशार्धोनिताः पणा 'लब्धाः । द्वात्रिंशदार्द्रकपलैस्सपञ्चमैः किं सरखे ब्रूहि ॥ १० ॥ कार्षापणैश्चतुर्भिः पञ्चांशयुतैः पलानि रजतुस्य | षोडश सार्थानि नरो लभते किं कर्षनियुतेन ॥ ११ ॥ कर्पूरस्याष्टपलैव्यं शोनैर्नात्र पथ दीनारान् । भागांशकलायुक्तान् लभते किं पलसहस्त्रेण || १२ ।। सार्थैस्त्रिभिः पणैरिह घृतस्य पलपञ्चकं सपश्चांशम् । क्रीणाति यो नरोऽयं किं साष्टमकर्षशतकेन ।। १३ ।। सार्वैः पञ्चपुराणैः षोडश सदलानि वस्त्रयुगलानि । लब्धानि सैकषष्ट्या कर्षाणां किं सरखे कथय ॥ १४ ॥ वापी समचतुरश्रा सलिलवियुक्ताष्टहस्तघनमाना । शैलस्तस्यास्तीरे 'समुत्थित शिखरतस्त्रस्य ॥ १५ ॥ वृत्ताङ्गुलविषूम्भा जलधारा स्फटिकनिर्मला पतिता । वाप्यन्तरजलपूर्णा नगोच्छ्रितिः का च जलसङ्ख्या ॥ १६ ॥ 'मुद्रद्रोणयुगं नवाज्यकुडबान् षट् तण्डुलद्रोणका- नष्टौ वस्त्रयुगानि वत्ससहिता गाप्षट् सुवर्णत्रयम्। 8 1 M and B read लभ्या:. B and K read the following for this stanza: दुग्वद्रोणयुगं नवाज्यकुडवान् षट् शर्कराद्रोणका- नष्टौ चोचफलानि सान्द्रदधिखार्यष्षट् पुराणत्रयम् । श्रीखण्डं ददता नृपेण सवनार्थ षड्जिनागारके षट्त्रिशचिशतेषु मित्र वद मे तद्दत्तदुग्धादिकम् ॥ • B reads समुत्थिता शि". 7-A 59