पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 शङ्कुच्छायापुरुषायामिविभक्तसूत्रम्- शरच्छायतिर्विभाजिता शङ्कसैकमानेन । लब्धं पुरुषच्छाया शङ्कुच्छाया तदूनमिश्रं स्यात् ॥ ३० ॥ अत्रोद्देशकः । शङ्कोरुत्सेधो द्रश नृच्छाचाशङ्कुभामिनम् पञ्चोत्तरर्पश्चाशन्नृच्छाया भवति कियती च ॥ ३१ ॥ स्तम्भस्य अवनतिसङ्ख्यानयनसूत्रम्-- छायावर्गाच्छोध्या नरभाकृतिगुणितशङ्ककृति: ।- सैकनरच्छायाकृतिगुणिता छायाकृतेः शोघ्या ॥ ३२ ॥ तन्मूलं छायायां शोध्यं नरभानवर्गरूपेग' । भागं हत्वा लब्धं स्तम्भस्यावनतिरेव स्यात् ॥ ३३ ॥ अत्रोद्देशकः । द्विगुणा पुरुषच्छाया व्युत्तरदशहस्तशङ्को । एकोनत्रिंशसा स्तम्भावनतिश्च का तत्र ॥ ३४ ॥ कश्चिद्राजकुमारः प्रासादाभ्यन्तरस्थस्सन् । पूर्वाह्ने जिज्ञासुर्दिनगतकालं नरच्छायाम् ॥ ३५ ॥ द्वात्रिंशद्धस्तोर्ध्वे जाले प्राग्भित्तिमध्य आयाता | रचिभा पश्चाद्भित्तौ व्येकत्रिंशत्करोर्ध्वदेशस्था ॥३६॥ तद्भित्तिद्वयमध्यं चतुरुत्तरविंशतिः करास्तस्मिन् । काले दिनगनकालं नृच्छायां गणक विगणय्य | कथयच्छायागणिते यद्यस्ति परिश्रमस्तव चेत् || ३७३ ॥ समचतुरश्रायां दशहस्तघनायां नःच्छाया | पुरुषोत्सेधद्विगुणा पूर्वाह्ने प्राक्तटच्छाया ॥ ३८३ ॥ 1 गणितसारसङ्ग्रहः. incorrect. I नृभावर्ग 1s the reading given in the MSS for नरभान ; but it is metrically