पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायाव्यवहारः. स्तम्भप्रमाणं च भिच्या रूढस्तम्भच्छायासङ्ख्यां च ज्ञात्वा भित्ति- स्तम्भान्तरसङ्ख्यानयनसूत्रम्- - पुरुषच्छायानिघ्नं रतग्भारूढान्तरं तयोर्मध्यम् | स्तम्भारूढान्त रहृततदन्तरं पौरुपी नाथा ॥ २३ ॥ अत्रोद्देशकः । 155 विंशतिहस्तः स्तम्भः षोडश भित्त्याश्रितच्छा | द्विगुणा पुरुषच्छाया मित्तिस्तम्मान्तरं किं स्यात् ॥ २४ ॥ अपरार्धस्योदाहरणम् । विंशतिहस्तः स्तम्भः पोडश मिच्याश्रितच्छाया । कियती पुरुषच्छाया भित्तिस्तम्भान्तरं चाष्टौ ॥ २५ ॥ आरूढच्छायावाः सङ्ख्यां च भित्तिस्तम्भान्तर भूमिसङ्ख्तं च पुरुषच्छायायाः सङ्ख्यां च ज्ञात्वा स्तम्भप्रमाणसङ्ख्यान वनसूत्रम्-- नृच्छायानारूढा भित्तिस्तम्भान्तरेण संयुक्ता । पौरुषभाहृतलब्धं विदुः प्रमाणं बुधाः स्तम्भे ॥ २६ ॥ अत्रोद्देशकः । षोडश मिच्यारूढच्छाया द्विगुणैव पौरुषी छाया । स्तम्भोत्सेधः कः स्याद्भित्तिस्तम्भान्तरं चाष्टौ ।।.२७ ।। शङ्कुप्रमाणशङ्कुच्छायामिश्रविभक्तसूत्रम् – शङ्कुप्रमाणशङ्कुच्छायामिश्रं तु सैकपौरुप्या । भक्तं शङ्कुमितिः स्वाच्छङ्कुच्छाया तदूनमिश्रं हि॥२८॥ अत्रोद्देशकः । शङ्कुप्रमाणशङ्कुच्छायामिश्रं तु पञ्चाशत् । शङ्कत्सेधः कः स्वाच्चतुर्गुणा पौरुषी छाया ॥ २९ ॥