पृष्ठम्:Dvisandhanam kavya.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। संभाषणेनेति ॥ त्वं लक्ष्मणो द्रौपदी च, विषादभावम क्रूरपरिणामेन, मे मम शूर्पण- खायाः कीचक्रस्य च, विषादं मनोम्लानिम्, संभाषणेन अपि न जिहीर्षसि हर्तुमिच्छसि। हि यतः कल्पतरोः तव आभाषणम् अपि फलान्तराखाय फलविनाय न कल्पयन्ति ॥ अ. र्थान्तरन्यासः ॥ कथां तदीयां स निशम्य भीमः प्रभाव्यसौमित्र्यभिधानरूढः । राजायजादर्शितकार्यसिद्धिरन्तर्मदोऽन्तःकुपितः करीव ॥ २२ ॥ कथामिति ॥ स सौमित्यभिधानरूड: सौमित्रिनामादितो लक्ष्मणसंशः राजा मीमो भ. यानकः, अप्रजादर्शितकार्यसिद्धिः अप्रजस्य रामस्य आदर्शिता कार्यसिद्धिर्येन ताहच सन् तदीयां शूर्पणखीयां कथां निशम्य श्रुत्वा प्रभाव्य पर्यालोच्य सौमित्यभिधानरूढः शोभन- मित्रवत्ताभिधाने रूढः, राजाग्रजादर्शितकार्यसिद्धिः राज्ञोऽप्रजो राजपदयोग्यः आदर्शिता कार्यसिद्धिर्येन प्रकटितशत्रुजयप्राप्तिः भीमो रौद्रा, अन्तर्मदः करी इव अन्तः कुपितः ॥ भारतीये असौ खड़े मियभिधानरूढः मित्रमस्सास्तीति मित्रि अभिधानं रूढं यस्य स प्र. भावी समाहात्म्यः, राजाग्रजादर्शितकार्यासिद्धिः राज्ञो युधिष्ठिरस्य अग्रजा भाविनी आद- शिता कार्यसिद्धिर्येन स भीमो वृकोदरः तदीयां कीचकीयाम् ॥ श्लेषोपमा ॥ अभ्येत्य निर्भर्त्य जगाद वाचं स्त्रीत्वं परागच्छ न वध्यवृत्तिः । प्रेहोलिताङ्गं रसनाकरेण मृत्योदिजान्दोलनमिच्छसीव ॥ २३ ॥ अभ्येत्येति ॥ स लक्ष्मणः अभ्येत्य संमुखीभूय निर्भय वाचं जगाद। (किमिति ।) त्वं परा अन्यदीया स्त्री गच्छ याहि । वध्यत्तिारणयोग्या न । रसनाकरण जिह्वाहस्तेन प्रे- होलिता दोलायितशरीरं मृत्योर्यमस्य द्विजान्दोलन दन्तोत्पाटनम् इव इच्छसि । भा- रतीये-स भीमः । हे पर शत्रो, त्वं स्त्रीत्वम् आगच्छ । येन वध्यवृत्तिः न स्यात् ।। श्लेषोत्प्रेक्षा ॥ खजीविते निर्विजसे यदि त्वं विशानलं वा गिल कालकूटम् ।। तेनाहतेयं महिलेति मे मा कृथा जनोदाहरणं दुरन्तम् ॥ २४ ॥ स्वेति ॥ त्वं यदि स्त्रजीविते, निर्विजसे निर्विषण्णतां गच्छसि, तदा अनलमनि विश प्रविश, वाथवा कालकूट विष, गिल खाद, 'तेन लक्ष्मणेन भीमेन वा, इयं महिला स्त्री आहता इति दुरन्तं दुनिवार, जनोदाहरणं लोकदृष्टान्तं मे मम मा कृथाः ॥ स्वरू- पाख्यानम् ॥ आशङ्कसे चेत्परिभावमर्यस्तवास्ति यद्यानय तं बलिष्ठम् । अतो मुखेनाहितवान्पदं स्यान्महारथः साहसिकः स एव ॥ २५ ॥ आशङ्कस इति ॥ चेत् त्वं परिभावम् आशङ्कसे मन्यसे । यदि तव अर्यः स्वामी अस्ति Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५६&oldid=234510" इत्यस्माद् प्रतिप्राप्तम्