पृष्ठम्:Dvisandhanam kavya.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः) द्विसंधानम् । वृत्तिः शूर्पणखा स्मरहेतुभूतं कामवैचित्यकारणं लक्ष्मणम् बलाहीतुं चकार ॥ हि यतः नाशे नाशकाले जन्तुं प्राणिनं मतिर्बुद्धिरपि अपैति त्यजति॥ भारतीयपक्षे-विशीर्णचेताः सापयुक्तस्थितिः स कीचकः तां द्रौपदीम् ।। श्लेषार्थान्तरन्यासः॥ आकारमादाय विनीतवेषं शृङ्गारमारोप्य यथाभिजातम् । कथंचिदम्येत्य कृतावगूढं प्रचक्रमे वक्तुमिति प्रसन्नम् ॥ १६ ॥ आकेति ॥ यथामिजातमवसरोचितं कृतावगूढ किंचिल्लोचने चरणौ च बहिःकृत- शरीरावरणं यथा सात्तथा प्रसन्नं यथा स्यात्तथा।। जानामि किंचित्रपया न वक्तुं विवक्षितं सूचयति व्यवस्था । सत्यां कियत्यामपि संवृतौ हि दुःखं सुखं वा निगदन्ति चेष्टा:१७ जानामीति ॥ कियत्यामपि संवृतौ सत्यां चेष्टा दुःखं सुखं वा निगदन्ति ॥ अर्था- न्तरन्यासः ॥ श्रव्याणि वाचालतयैव तन्व्या त्वया मयोक्तानि मनीषितानि । गवाक्षजालीकृतचेतसो मे सरस्य बाणैः शरणं भव त्वम् ॥ १८ ॥ श्रव्याणीति ॥ तन्व्या मया शूर्पणखया मनीषितानि अभीप्सितानि यानि वाचालतयैव उक्तानि तानि त्वया लक्ष्मणेम श्रव्याणि । स्मरस्य बाणैः गवाक्षजालीकृतचेतसः छिद्रीकृ. तान्तःकरणस्य मे शरणं त्वं भव ॥ भारतीयपक्षे-यानि मया कीचकेन मनीषितानि वाचालतयोक्तानि तानि तन्व्या त्वया द्रौपद्या श्रब्याणि ।। श्लेषः ॥ शार्ङ्ग पिनाकं धनुरिन्द्रचापं दिव्यं वहन्तोऽपि न जेतुमीशाः । शरासनं पौष्पमयं दधानत्रैलोक्यमालीढगतं करोति ॥ १९ ॥ शामिति ॥ दिन्य शाई पिनाकं धनुरिन्द्रचापं वहन्तो दधतोऽपि हरिहरसुरेन्द्रास्त्रै. लोक्यं जेतुं न ईशाः समर्थाः ॥ अयं स्मरः पौध्यं शरासनं धनुर्दधानस्त्रैलोक्यं त्रिभुवन• मालीढगतमालीढास्यस्थानकविशेषमध्यवर्ति करोति । त्वां जीविकाकृत्य निदेशमिच्छं प्रतीच्छ मां भक्तियुजं दयात्मा। तवासि दासीवशवर्तिनी मे त्वयि स्थितं जीवितमित्यवेहि ॥२०॥ स्वामिति ॥ हे लक्ष्मण, दयात्मा दयालुस्त्वं त्वां भवन्तं जीविकाकृत्य जीविकामिव कृत्वा निदेशमादेशमिच्छमिच्छन्ती भक्तियजं सेवापरां मां शर्पणखां प्रतीच्छ स्वीकरु । अहं तव भवतो वशवर्तिनी आज्ञाविधायिनी दासी चेटी अस्मि । मे मम जीवितं जीवन त्वयि स्थितमित्यवेहि । भारतीये त्वां द्रौपदीम् । इच्छुमिच्छन्तम् । भक्तियुजं सेवापरम् । दासी इवेत्यध्याहार्यम् ॥ श्लेषः ॥ संभाषणेनापि न मे विषादं विषादमावेन जिहीर्षसि त्वम् । नाभाषणं कल्पतरोस्तवापि फलान्तरायाय हि कल्पयन्ति ॥ २१॥ Dogited o, Google Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५५&oldid=234509" इत्यस्माद् प्रतिप्राप्तम्