पृष्ठम्:Dvisandhanam kavya.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । तदा बलिष्ठं सम् आनय । अतः कारणात् मुखेन वदनेन यः पदं पदवीम् आहिसवान् आरोपितवान् स एव साहसिको महारथश्च किं स्यात् । यद्वा स एव महारथः साहसिको धैर्यवान् स्यात् ॥ अर्थान्तरन्यासः ॥ महीं समूहन्तमिवाक्षिपन्तं ब्रनं प्रतापाग्निमिवोद्गिरन्तम् । ब्रुवाणमाक्षिप्य गिरं तथासौ निर्घातपातोपहतं जगर्न ॥ २६ ॥ महीमिति ॥ असौ शूर्पणखा कीचकश्च, महीं पृथ्वी समूहन्तं गिलन्तम् इव, ब्रनं सू- यम् आक्षिपन्तमालिखन्तम् इव, प्रतापानि 'प्रतापो यस्य वातापि राज्ञा स्याद्भयकारिणी' इत्युक्तलक्षणप्रतापानिं वीरविपक्षभयोत्पादनवा दहन उद्विरन्तम् इव, गिरं वाणी - वाणं भाषमाणम् तथा (लक्ष्मणं कृकोदरं च) लक्ष्मणभीमौक्तिक्रमेण निर्धातपातोपहतं बिद्युल्लतापातसमर्दितम् यथा स्यात्तथा जगर्न ॥ उत्प्रेक्षा ॥ काष्ठा गिलन्तीव भुवं वियञ्च भित्त्वा वजन्तीव मनो जनानाम् । विदारयन्तीव वचांस्यवोचत् सामान्यवृत्तिः समहानियोगात्॥२७॥ काष्ठा इति ॥ अमान्यवृत्ति निन्दिताचरणा सा शूर्पणखा समहानियोगात् समं युगपत् हान्योः शम्बुकुमारमरण लक्ष्मणसंभोगाभावरूपयोर्योगात्संबन्धाद काष्ठा दिशो गिलन्ती इव, भुवं पृथ्वी वियद्गगनं च भित्त्वा ब्रजन्ती इव, जनानां मनो विदारयन्ती इव, वचांसि अवोचत् । भारतीये-सामान्यतिः सामतोऽन्यस्मिन्दण्डे वृत्तिर्वर्तमं यस्य दण्डयोग्यः सः कीचकः महानियोगाद गुरुतरनिबन्धात् काष्ठा गिलन्ति इव, भुवं वियच भित्त्या ब- जन्ति इव, जनानां मनो विदारयन्ति इव वांसि अवोचत् ॥ श्लेषोत्प्रेक्षा। नापत्यघातं प्रतियुज्य वाचा बहुप्रलापिन्नपयासि जीवन् । भवानभिज्ञः खरदूषणस्य नाद्यापि युद्धेषु पराक्रमस्य ॥ २८ ॥ नापत्येति ॥ हे वाचा बहुपलापिन् लक्ष्मण, अपत्यघातं शम्बुकुमारवधं प्रतियुज्य वि- धाय जीवन् सन् न अपयासि अपसरसि । भवान् अद्यापि पराक्रमस्य पराशत्रूनाक्रमतः खरदूषणस्य खरदूषणयोः युद्धेषु न अभिज्ञः । यद्वा युद्धेषु खरदूषणस्य तत्संबन्धिनः परा. क्रमस्य बलस्य ॥ भारतीये-आगत्य आगत्य घातं वधं प्रतियुज्य उद्दिश्य वाचा बहुपला- पिन् , त्वं जीवन् न अपयासि । खरदूषणस्य खरं तीव्र दूषणं यस्माद्यस्मिन् वा तादृशो युद्धेषु पराक्रमस्य न अभिज्ञः ॥ श्लेषः ॥ वैरायते मे मतिरस्ति शक्तिरागच्छ संपादय संपरायम् । वेत्सि प्रतापं रिपुवंशदावं कथं न मत्तो दशकंघरोत्थम् ॥ २९॥ वैरेति ॥ हे लक्ष्मण, मे मम मतिर्बुद्धिः, वैरायते वैरं करोति । यदि शक्तिलमस्ति तदा आगच्छ संपरायं युद्ध संपादय । मत्त उन्मत्तस्त्वं रिपुवंशदावं विपक्षान्वयदावानलम. दशकंघरोत्थं रावणीयं प्रतापं पौरुषं कथं न वेत्सि ॥ भारतीये-हे भीम, ते तव वैराय मे Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५७&oldid=234511" इत्यस्माद् प्रतिप्राप्तम्