पृष्ठम्:Dvisandhanam kavya.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सर्गः] द्विसंधानम् । तनुमिति ॥ यत्र किल काचबद्ध भूतले थिम्बितां नर्तक्यास्तनुं विलोक्य 'असू- चिता वधूः किमियं प्रविष्टा' इति हेतोर्धकुंसैर्धकुटिविरच्यते । भ्रान्तिमान् ॥ प्रियेषु गोत्रस्खलितेन पादयोन्तेषु यस्यां शममागताः स्त्रियः । स्वबिम्बमालोक्य विपक्षशङ्कया पुनर्विकुष्यन्ति च रनभित्तिषु ॥३१॥ प्रियेष्विति ॥ यस्यां गोत्रस्खलितेन द्वितीयायाः सपल्या नामग्रहणापराधेन पा. दयोर्नतेषु प्रियेषु सत्सु शर्म प्राप्ता अपि स्त्रियः पुना रत्लभित्तिषु स्वबिम्बमालोक्य विपक्ष- शङ्कया विशेषेण कुप्यन्ति । भ्रान्तिमान् ।। प्रवालमुक्ताफलशङ्कशुक्तिमिर्विनीलकर्केतनवज्रगारुडैः। यदापणा भान्ति चतुःपयोधयः कुतोऽपि शुष्का इव रत्नशेषतः॥३२॥ प्रवालेति ॥ यस्यामापणाः प्रवालैविद्रुमैः, मुक्ताफलैमौक्तिकैः शङ्खः कम्युभिः, शु. क्तिभिर्मुक्तास्फोटः, विशिष्टैनीलैर्मेचकैः, कर्केतनै रत्नविशेषैः, वढीरकैः, गारुडैरुत्मते- मणिभिः, कुत्तोऽपि कारणाच्छुष्काश्चतुःपयोधयो रत्नशेषत इव, भान्ति । उत्प्रेक्षा। पट्यः पटक्षौमदुकूलकम्बलं मधूनि वर्माणि च रत्नकाञ्चनम् ।। क्रयाय कपूरमयांसि चक्रिणो यदापणानन्तरितं समस्त्यपि ॥ ३३ ॥ पट्य इति ॥सीवितवस्त्रद्वयलक्षणाः पश्यः, पटाः परिधानवस्त्राणि क्षौमाणि वन- विशेषाः दुकूलानि पत्रोर्णानि कम्बला उर्णायवः एषां समाहारः, मधूनि क्षौद्राणि, व- माणि तनुत्राणि, रलानि पनरागादीनि, काचनानि हिरण्यानि, कर्पूर घनसारम् । जात्यै. कत्वम् । अयांसि लोहानि, चक्रिणो रथाः, इत्येवं सकलवस्तुजातं यदापणानन्तरितं यसां हटानवाच्छिन्नं क्रयाय द्रव्यविनिमयाय समस्ति ॥ रसेषु हेमे कुसुमेषु कुङ्कमे घनेषु वजे जलजेषु मौक्तिके। समस्तपण्ये सुलभे सुदुर्लभं यदीयवेश्याजनपण्यमुज्ज्वलम् ॥ ३४ ॥ रसेष्विति ॥ रसेषु धातुषु सुवर्णे, पुष्पेषु घुसणे, कठोरेषु हीरके, वारिजेषु मौक्तिके, एवं समस्तपण्ये सुलभेऽपि यदीयवेश्याजनं जात्योज्ज्वलं सुदुर्लभमित्यर्थः । सुलभेषु हि- रण्यहीरकादिषु व्ययीक्रियमाणेष्वपि यमगरीनिवासिनां यूनां प्रचुरतया उम्ज्वलं लावण्य- यौवनमनोहरणीयतादिगुणयुक्तं वैश्याजनरूपपर्ण्य दुर्लभं तासामरूपत्वादिति भावः । समुचयः ॥ कृतार्थसारान्व्यवहारघोषिणो न सत्पदव्याकरणेन मानितान् । गुरून्यदीयान्विषणींश्च संश्रितास्तृषान्यदीयाञ्जिहतेऽन्यवस्तुनः ॥३५॥ कृतेति ॥ कृतार्थसारान्विहितार्थनिर्णयान् , व्यवहारं लौकिकाचारं घुष्यन्ति वदन्ती- स्येवंशीलान् , प्रमाणबाधादूरीकृतपदानां तर्ककाव्यसिद्धान्तशास्त्राणां व्याकरणेन च मा- Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९&oldid=234466" इत्यस्माद् प्रतिप्राप्तम्