पृष्ठम्:Dvisandhanam kavya.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। यूराणां के सुख लपन्तीत्येवंशीलानां सत्पुरुषाणां वा निवासयष्टयः गृहवरण्डिका हर्म्यप- कयो वा, मायूस्पताकिका मायूरवैजयन्त्य इव, स्फुरन्ति । उपमा । सितासिताम्भोरुहसारितान्तराः प्रवृत्तपाठीनविवर्तनक्रियाः। समायता यत्र विभान्ति दीपिकाः कटाक्षलीला इव वारयोषिताम्॥२६॥ सितेति ॥ यत्र सितासिताम्भोरुहसारितान्तराः श्वेतनीलकमलपूरितमध्याः, प्रवृत्ताः संजाता: पाठीनानां मीनानां विवर्तनक्रिया यासु ताः, समाः समकोणा आयता दीर्घा दीधिकाः क्रीडावाप्यः, शुकश्यामाम्बुजैरिव संवलितमध्याः प्रवृत्ताः पाठीनानामिव वि- वर्तनक्रिया यासां ताः पण्याङ्गनानां कटाक्षलीला अपाङ्गपातशोभा इव, विभान्ति । उपमा ॥ अदृश्यपारापतनामिहेतुषु स्थिरान्धकारेषु जलावगाहिषु । अधोगति संप्रतिपन्नवत्सु या न कूपदेशेष्वपि सत्सु दूषिता ॥ २७ ॥ अदृश्येति ॥ अदृश्यापारा अनिरीक्ष्यपर्यन्ता, या नगरी, पतनाभिहेतुषु गृहीतव्रत- प्रच्यवनाभिकारणेषु, स्थिरान्धकारेषु स्थिरपापेषु, जडावगाहिषु, अधोगति निन्द्याचरणं संप्राप्तवत्स, कत्सितोपदेशेषु सत्स्वपि न दृषितेति विरोधः । अदृश्याः पारापता: पक्षिणो यत्र तस्या नाभेर्मध्यस्य हेतुषु वृद्धिप्रापकेषु, स्थिरान्धकारेषु स्तिमिततमःस्तोमेषु, जलम- वगाहिषु, अधोगतिमधस्ताद्विवरमार्ग संप्रतिपन्नवत्सु, कूपदेशेषु प्रहिप्रदेशेषु सत्स्वपि या न दूषितेति परिहारः । विरोधालंकारः ॥ अशोकसप्तच्छदनागकेसरैः सुमाधिकैराततपुष्पवासनैः । प्रयान्त्यभिज्ञातपथाः कथंचन क्षपासु यस्यां प्रियवासमङ्गनाः ॥२८॥ अशोकेति ॥ यस्यां, क्षपासु, अनाः कमनीयकामिन्यः, सुमाधिकैः, पुष्पाधिकः, आततपुष्पवासनः प्रसृतकुसुमामोदैः, अशोकैः पिण्डीद्रुमैः सप्तच्छदैः सप्तपर्णैः नागकेशरै- क्षविशेषः, कथंचन महता कष्टेन अभिज्ञातपथा आत्मप्रतीतिनीतमार्गाः सत्यः प्रियावासं वल्लभसुरतमन्दिरं प्रयान्ति ॥ विशीर्णहारा हतकीर्णशेखराश्च्युतोरुजाला गलितावतंसकाः। रतोत्सवे विस्मृतसीधुशुक्तयो यदीयसंकेतभुवश्चकासति ॥ २९ ॥ विशीर्णेति ॥ यदीयसंकेतभुवः, त्रुटितमौक्तिकावल्यः, पूर्वे हताः पश्चात्कीर्णाः शि- खास्थसुममाला यासु ताः, पतितमेखलाः, च्युतकर्णभूषणाः, विस्मृतमद्यचषकाः सत्यो दीप्यन्ते ॥ तनुं नटन्त्याः किल काचकुट्टिमे भुवस्तले यत्र विलोक्य विम्बिताम् । इयं प्रविष्टा किमसूचिता वधूरिति भ्रकुंसैर्धकुटिविरच्यते ॥ ३०॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८&oldid=234465" इत्यस्माद् प्रतिप्राप्तम्