पृष्ठम्:Dvisandhanam kavya.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । वरूथिनीलकममन्यसैन्यं ज्वलत्प्रकोपामलमुत्पतन्तम् । दृष्ट्वा यमाकारमरिप्रभातं संहारमहाय भुषः शशङ्के ॥ ३६॥ वरूथिनीति ॥ अरिप्रजा रावणप्रजा वरूथि वसथाः सन्ति अस्मिन् रथगुप्तिसहितम् , घनं निषिडम्, अन्यसैन्यं रावणसैन्यम् उत्पतन्तम्, ज्वलत्प्रकोपानलं ज्वलन् प्रकोप एष अनलो यस्य ते यमाकारं यमसदृशं तं नीलं कपीन्द्रं दृष्ट्वा भूवः संहारमहाय झरिति शशङ्के । (१) । ज्वलत्प्रकोपा अरिप्रजा वरूथिनीलानं सेनालानं नलं कपीन्द्रम् । (२)॥ भारतीये अरिप्रजातम् अन्यसैन्यं कर्त. यमाकारं यमलजातं नकुलसहदेवमूर्तिम् ।। स वानराणां पतिरुग्रसेनः किं वर्मणा स्यात्किल मर्मणेव । परागृहीतेन मियेति चित्रं संनद्धवान्सनहनं न भेजे ॥ ३७ ।। स वानेति ॥ उग्रसेन उग्रा सेना यस्य स वानराणां पतिः सुग्रीवः मर्मणेव भिया परा- छत्रोहीतेन वर्मणा संनहनेन किं स्थादिति संनद्धवान् सनहनं न भेजे इति चित्रम् ॥ भारतीये--वा अथवा स नराणां पतिरुप्रसेनस्तदभिधानः ॥ दिधक्षवे लोकमरातिसेनं संधुक्षमाणं द्रुपदेन तेन । क्रोधामयेऽकल्प्यत कोटिकल्पं भामण्डलेनोत्तपतातेजः ॥ ३८ ॥ दिपक्षेति ॥ अर्कतेज उत्तपता तेन मामण्डलेन जानकीबान्धवेन लोकं दिपक्षवे को- धामये कोटिकल्पं कोटिसंख्यामिः कल्पनीयम् अरातिसेनम् अरातीनों सेना दुपदे दारु- स्थाने संधुक्षमाणम् न अकल्प्यत अकल्प्यतैष । भारतीये-भामण्डलेन दीप्तिपरिषेषेण अर्कतेज उत्तपता तेन द्रुपदेन नरेन्द्रेण । अकस्प्यत ॥ तीबोद्धवं क्रुद्धमनेकसैन्यं परासुषेणन्तमरिबजाय । निर्विज्य नित्यास्तमयात्कथंचिद्वैरोचनी दीप्तिरुपायतेव ।। ३९ ॥ तीव्रौद्धवमिति ॥ परा उत्कृष्टा, वैरोचनी सौरी दीप्तिः नित्यास्तमयात् अनवरतास्तात् निर्विज्य अरिबजाय शत्रुगणाय क्रुद्धम् , तीव्रोद्धवमुप्रगर्वम् अनेकसैन्यं तं सुषेणं वानरेन्द्र कथंचिन्महता कष्टेन उपायत इव ॥ भारतीये-परासुषे निराकृतवतेऽरिमजाय अणन्त. मूर्जन्तम् उद्धवं श्रीकृष्णामात्य तीव्रा वैरोचनी व दीप्तिः उपायत । नित्या वैरोचनी दीप्तिः कथंचित् निर्विज्य अस्तम् अयात् ॥ सज्जाम्बवः क्षोभणमभ्यगच्छन्न केवलं वारिधयोऽद्रयश्च । भिन्ना विदूरे विशिखैरमोधं तथा दुरन्तं विदुरस्य शस्त्रम् ॥ ४०॥ सज्जेति ॥ जाम्बव अक्षराट् केवलं शोमणे म अभ्यगच्छत् । किं तु विशिखैर्विदूरे मिमा पारिधयः समुद्राः अद्रयः क्षोभणमभ्यगच्छन् ।तथा अस सच् शक दुरन्तं विदुः॥ भारतीये-सज्जाम्बवः सज्जमम् येषां तादृशो वारिधयः कैवलं क्षोभर्ण माभ्यगन्छन् । किंतु अद्रयोऽपि । विदुरस्य धृतराष्ट्रामुनस्य । Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८०&oldid=234650" इत्यस्माद् प्रतिप्राप्तम्